________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
४०१
"
L
तपसा 'योगा' मनोवाक्कायरूपा 'न हीयते' स्वरूपरमणं तवानुभवतो न हीयते यत्र इंडिया 'क्षीयंते' 'धर्मसावकस्वाध्यायाहिंसादि तत्कार्यप्रवृत्ति ते क्षयं न लभते, इत्यनेन साधनाभूतचेतनावीर्याणां हानिः न स्यात्, तत्तपः शुद्धं 'कार्य' कर्त्तव्यं इति ॥ ७ ॥
मूलोत्तरगुणश्रेणि-प्राज्यसाम्राज्यसिद्धये । बाह्यमाभ्यन्तरं चेत्थं, तपः कुर्यान्महामुनिः ॥ ८ ॥
"
व्या० - मूलोत्तरगुणेति - 'महामुनिः' परमनिर्ग्रथः इत्थं तपः कुर्यात् किंभूतं तपः ? “मूलोत्तरगुणश्रेणिप्राज्य साम्राज्यसिद्धये " मूलोत्तरा मूलभूता ज्ञानचारित्रादयो गुणा ' उत्तराः समिति - गुप्यादयो गुणाः तेषां 'श्रेणिः' विशेषतः गुणप्राग्भावरूपा तया 'प्राज्यं' प्रचुरं यत् ' साम्राज्यं प्रभुत्वं तस्य ' सिद्धिः ' निष्पत्तिः तस्यैइत्यनेन स्वकीयगुणप्रभुत्वनिष्पत्यर्थ बाह्यं लोकोल्लासकारणत्वात् प्रभावकतामूलं आभ्यंतरं अन्यलोकैः ज्ञातुमशक्यं स्वगुणिकतारूपं च तपः कार्यम् ॥ ८ ॥
इति व्याख्यातं तपोऽष्टकम् ॥ ३१ ॥
अथ सर्वनयाश्रयणाष्टकम् ॥ ३२ ॥
तपो द्विविधं संवरात्मकं ( ज्ञानात्मकं च ) तत्र संवरात्मकं ज्ञानचारित्रयोः तीक्ष्णत्वं सचेतनावीर्यादीनां स्वरूपकैकत्वं, द्वितीयं तु ज्ञानचारित्रवीर्यभोगगुणसंकरसंभवं गुणास्वादैकत्वानुभववत् सर्वपरभावास्पृहतारूपं, जघन्यतः अंशत्यागपूर्वकदेशतोऽनीहागुणकत्वं, उत्कृष्टतः शुक्रुध्यानचरमाध्यवसायलक्षणं, परभावावचोचो
51
२१३
For Private And Personal Use Only