________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४००
तपोऽष्टकम् .
व्या० - इत्थं चेति । इत्थं यत्तपः कष्टं इति भासनपूर्वकं तत्तपः 'व्यर्थ' निष्फलं, कस्मात् ? दुःखरूपत्वात् तपःकरणे एव दुःखोद्वेगौ यत्र नादरः स कथं हिताय भवति । तथा 'इच्छतां ' इति परभावसुखं इच्छतां वांछतां बौद्धानां बुद्धिः 'निहता' निश्चवेन हता, कस्मात् "बौद्धानंद: " बौद्धं ज्ञानं तस्य आनंदः तस्य परिक्षयः तस्मात् ज्ञानानंदधाराक्षयात् कष्टरूपं तपः निष्फलम् ॥ ५ ॥ यत्र ब्रह्म जिनाच च, कषायाणां तथा हृतिः । सानुबन्धा जिनाज्ञा च तत्तपः शुद्धमिष्यते ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
9
व्या० - यत्र ब्रह्मेति, यत्र यस्मिन् तपसि 'ब्रह्म' 'मैथुनत्यागः विषयानभिष्वंगः अस्ति । यत्र जिनानां 'पूजा' तत्त्वभक्तिर्वर्त्तते पुनः यत्र 'कषायाणां क्रोधादीनां 'हृतिः' नाशः च पुनः यत्र 'जिनाज्ञा' श्रीवीतरागोक्तप्रवचनपद्धतिः 'सानुबंधा' सापेक्षा तत्तपः शुद्धं इष्यते । भावना च प्रथमं इंद्रियाभिलाषनिरासे शांत परिणत्या सिद्धांतोक्तविधिना निरभिलाषस्य तपो विशुद्धं भवति, अन्ना दिपरभावसुखस्पृहया किं केन न कृतं कष्टानुष्ठानं ? यच्च स्वरूपनिरावरणार्थं निःसंग निर्मोहकतत्वैकत्वरूपं व्यावातकपरभावाहारादिग्रहणनिवारणलक्षणं तपः तत् श्रेष्ठमिति । उक्तं च-निरणुट्टाणं मयमोहरहियं सुद्धतत्तसंत्तं ।
असम्भभावणा एवं तवं कम्म सुयहेउ ॥ १ ॥ ६॥ तदेव हि तपः कार्ये, दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि वा ॥७॥
"
व्या० - तदेव हीति । हीति निश्चितं, तदेव तपः ' कार्य करणीयं यत्र दुर्व्यानं पुद्गलाशंसारूपमनिष्टतारूपं नो भवेत् । येन
२१२
For Private And Personal Use Only