________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
तत्त्वज्ञानार्थिनां भवविरक्तानां अनशनादिकं तपो न दुस्सहं, कार्यार्थी कारणे न प्रमाद्यति, अतः परमानंदकार्यकर्ता अनशनादितपःकष्टानुष्ठाने न दुस्सहत्वं मन्यते ॥ ३ ॥ सदुपायप्रवृत्तानामुपेयमधुरत्वतः। ज्ञानिनां नित्यमानन्द-वृद्धिरेव तपस्विनाम् ॥४॥ ___ व्या०-सदुपायेति । 'तपस्विनां तीव्रतपोमग्नानां साधिकषण्मासांतं सर्वाहारपरिहारातापनाकायोत्सर्गादिजिनकल्पपरिहारविशुद्धि 'मुनीनां' ज्ञानिनां सूक्ष्मानंतस्वपरपर्यायविवेकमग्नीकृतचैतन्यानां 'तपसि' परीषहादौ वननदीगह्वरवासेऽपि आनंदवृद्धिरेव । तथाहिकश्चिदधमर्णः प्राप्तद्रव्योपचयः उत्तमर्णाय द्रविणं ददत् आत्मानं धन्यमेव मन्यते, अथवा लब्धिसिद्धयर्थी पूर्वसेवायां उदाहुः अधोमुखादिमहाकष्टानुष्ठानमपि तत्सिद्धिसाध्यामिलाषी यथात्यंतकष्टं चेष्टते, तथा हर्षमेति एवं परमानंदाव्ययशुद्धात्मसिद्धिसाधनार्थी तद्विघातककर्मक्षयाय तपःकष्टादिषु आत्मानमानंदयति, कुतः ? इत्याह-उपेयमधुरत्वतः, 'उपेयस्य मोक्षस्य निर्मलाव्ययपदस्य यन्मधुरत्वं माधुर्य तस्मात्, सिद्धिमाधुर्यरतस्य तत्साधनोपायभूतं निष्परिग्रहत्वादि सर्व हितं जानाति, कथंभूतानां तपस्विनां ? 'सदुपायप्रवृत्तानां, सन् शोभनः उपायः साधनं संवरनिर्जरारूपं तत्र 'प्रवृत्तानां' उद्यतानां, इत्यनेन स्वधर्मसाधने साधूनामानंदः न दुःखं, यस्य साधने कष्टत्वबुद्धिः स न साधकः । उक्तं च षोडशके ॥ ४ ॥ इत्थं च दुःखरूपत्वात्,तपो व्यर्थमितीच्छताम्। बौद्धानां निहता बुद्धि-बौद्धानन्दापरिक्षयात् ॥५॥
२११
For Private And Personal Use Only