________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९६
ध्यानाष्टकम्
ath तिर्यग्नारकाग्रहणं तु तयोर्दुर्गतित्वात् इत्यनेन त्रिभुवने उपमा सादृश्यन, तत्वज्ञानानुभवलीनस्य सहजानन्दविलासकस्य तुलना केन क्रियते ? इति । किं कुर्वतस्तस्य अंतरे च आत्मांतरमध्ये एव अप्रतिद्वंद्वं बाह्याभ्यंतरविपक्षरहितं सर्वपरभावागम्यं साम्राज्यं स्वगुणसंपत् स्वभावपरिवारोपेतं राज्यं स्वाधीनं वितन्वतः विस्तारयतः स्वगुणानंदासंख्येयप्रदेशनिर्व्याघातं स्वराज्यमनुभवतः । अतः सर्वेऽपि षष्ठयंत्या ध्यानिनो विशेषणे संयोज्याः । कथंभूतस्य ध्यानिनः ? 'जितेंद्रियस्य' जितानि स्वरूपोपयोगे क्लृप्तानि पौद्गलिकवर्णादिष्वपरिणमनात् जितानि इंद्रियाणि येन सं तस्य, 'धीरस्य' स्ववीर्यसामर्थ्येन परीषहोपसर्गेऽकंप्रस्य, स्वरूपनिष्ठस्य, पुनः 'प्रशांतस्य' कषायनोकषायोद्रेकरहितस्य धीरः शांत एव आत्मानमास्वादयति, पुनः 'स्थिरात्मनः स्थिरः आत्मस्वरूपरमणे आत्मा यस्य स तस्य सुखासनस्य साधनपरिणतौ सुखमय आत्मा यस्य स तस्य पुनः नासाग्रे चापल्यरोधनाय 'न्यस्ते' स्थापिते नेत्रे येन स तस्य योगिनः सम्यग्दर्शनज्ञानचारित्ररत्नत्रयीपरिणतस्य, रुद्धा बाचेंद्रियानुसारिणी मनसः वृत्तिन स तस्य, इंद्रियानुयायिमनोवृत्तिनिवृत्तस्य, कस्माद् ? ध्येये चित्तस्य स्थिरबंधनं धारणा तस्या धारा तया धारणाधारया रयात् रुद्धमनसः तत्त्वज्ञानं सुनिश्चितं भवति, पुनः 'प्रसन्नस्य' कालुध्यरहितस्य 'अप्रमत्तस्य' अज्ञानाद्यष्टप्रमादनिवृत्तस्य पुनः 'चिदानंदसुधालिहः' चित् ज्ञानं तस्यानंदः स एव सुधा अमृतं तां लिह्यतीति तस्य लिहः, ज्ञानानंदास्वादकस्य, एतादृशस्य ध्यानिनः आत्मिक साम्राज्यानुभवं विस्तारयतः तुल्यत्वं केन भवति ? न केनापि । अतः सर्वपरभावपरित्यागरूपावलोकनतत्त्वैकत्वध्यानामृतस्वभोग्यभोक्तुः परमसाम्राज्यं । अतः सर्वप्रकारेण तदेव कर
,
२०८
For Private And Personal Use Only