________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
मत्वं ततः पश्चात् 'पुण्यं०' पुण्यप्रकृतिरूपं तीर्थकृत विश्वोपकारि संघस्थापकातिशयरूपं नामकर्म तस्य बंधतः तद्भावाभिमुखत्वेन तदुपयोगेन क्रमात् संपत्तिः भवेत्, परमैश्वर्य भवेत् । इदं च निरनुबंधरूपं फलं दर्शितम् ॥ ४ ॥
___अथ ध्यानशून्यत्वेन सफलं नेति दर्शयतिइत्थं ध्यानफलायुक्तं, विंशतिस्थानकायपि । कष्टमात्रं त्वभव्यानामपि नो दुर्लभं भवेत् ॥ ५॥
व्या०-इत्थमिति । इत्थं पूर्वोक्तप्रकारेण 'ध्यानफलात्' त्रिविधध्यानोपयोगात् विंशतिस्थानकाद्यपि विंशतिस्थानप्रमुखं गुणिबहुमानेन युक्तं कर्तुं उचितं, अभव्यानां तु अन्यत् सम्यग्दर्शनादिगुणिबहुमानध्यानोपयोगशून्यं विंशतिस्थानादि तपोव्यूह 'कष्टमात्र कायक्लेशरूपं 'भवे' संसारे नो दुर्लभं बाह्याचरणं जैनोक्तः मपि बहुशः अभव्यैः कृतपूर्वमिति ॥ ५॥
अथ ध्यानकारकस्य स्वरूपं निदर्शयन् श्लोकत्रयमाहजितेन्द्रियस्य धीरस्य, प्रशान्तस्य स्थिरात्मनः। सुखासनस्य नासाग्र-न्यस्तनेत्रस्य योगिनः ॥६॥ रुद्धबाष्पमनोवृत्तेर्धारणाधारया रयात् । प्रसन्नास्याप्रमत्तस्य, चिदानन्दसुधालिहः ॥७॥ साम्राज्यमप्रतिद्वंद्वमन्तरेव वितन्वतः । ध्यानिनो नोपमा लोके, सदेवमनुजेऽपि हि ॥८॥
व्या०-जितेंद्रियेति, रुद्धबाष्पेति, साम्राज्यमिति । एवंविधस्य घ्यानिनः 'हि' इति निश्चितं 'सदेवमनुजेऽपि लोके' ससुरनरे
२०७
For Private And Personal Use Only