________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यानाष्टकम् wwmwwwwwwwwwwwwwwwwwwwwwwwwwwwww
w
मावीर्यादीनां सर्वक्षयोपशमानां स्वरूपोपयोगलीनत्वं ध्यानंतत्र ध्यातुः ध्येये तदेकाग्रतारूपे ध्याने समापत्तिः निर्विकल्पता तारतम्यरहिता चित्परिणतिः एकता ज्ञेया ॥२॥
तत्र दृष्टांतेन कथयतिमणौ बिम्बप्रतिच्छाया, समापत्तिः परात्मनः । क्षीणवृत्तौ भवेद् ध्यानादन्तरात्मनि निर्मले ॥३॥
व्या०-मणौ बिबेति । यथा 'मणौ रत्ने बिंबस्य प्रतिच्छाया तथा 'अंतरात्मनि' स्वस्वरूपे 'परात्मनः' निर्मलात्मनः "ध्यानात् समापत्तिः सिद्धात्मनः स्वात्मत्वैकतारूपा भवेत्, कथंमूते अंतरात्मनि ? 'निर्मले' कषायविकल्पमलरहिते पुनः किंमूते ? 'क्षीणवृत्तौ ' क्षीणा वृत्तिः पराजीविका यस्य स क्षीणवृत्तिः तस्मिन् एव समापचौ ध्यानसिधिः भवति इत्थं पूर्वोक्तप्रकारेण अन्यत्रोक्तं
मणेरिवामिजातस्य, क्षीणवृत्तेरसंशयम् ।
तात्स्थ्यात्तदंजनत्वाच्च, समापत्तिः प्रकीर्तिता ॥ १॥ . ___ अंतरात्मनि परमात्मनः अभेदारोपः ध्यानफलं तच्च संसगारोपतो भवति, संसर्गश्चात्र निष्पन्नानंततात्त्विकसिझात्मनामुपयोगः तच्च चलचित्तानामिंद्रियरोधमंतरेण न भवति, इंद्रियरोधश्च जिनप्रतिमादिकारणमंतरेण न जायते; अतः स्थापना तखो'पकारकारिका ॥३॥
आपत्तिश्च ततः पुण्य-तीर्थकृत्कर्मबन्धतः । सजावाभिमुखत्वेन, सम्पत्तिश्च क्रमाद्भवेत् ॥ ४ ॥
व्या०-'आपत्तिश्चेति' च पुनः 'आपत्तिः' जिनभक्तिस्तन्म
For Private And Personal Use Only