________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावपूजाटकम्
-
-
.
व्या-ब्रह्माध्ययनेति ब्राह्मणो मुनिः श्रमणो द्रव्यभावब्रह्मचर्ये रतः ब्राह्मणः अवैः पापैः न लिप्यते न लेपवान् भवति, कथंभूतः ब्राह्मणः ? ब्रह्माध्ययनं आचारांगप्रथमश्रुतस्कंधनवमाध्ययनं तस्मिन् उक्ता निष्टा मर्यादा तद्वान्, परिणतिपरिणतः पुनः परब्रह्म शुद्धात्मस्वरूपं, तेन समाहितः समाधिमयः, पुनः नियागः कर्मक्षपणं, तस्य प्रतिपत्तिः तद्रूपता तद्वान् परिणतः, मिक्षुः पापैर्न लिप्यते, नावगुंठनावान् भवति, अत एव स्वरूपभासनरमणपरिणतः अनादिकर्मपटलक्षयं कृत्वा सिद्धबुद्धः परमानंदमयो भवति, अतो भावनियागः कर्मदहनरूपः करणीय इति, तत्त्वम् ॥८॥
इति व्याख्यातं नियागाष्टकम् ॥ २८ ॥
अथ भावपूजाष्टकम् ॥ २९ ॥ अथ द्रव्यपूजोपस्काररूपं भावपूजास्वरूपभावनोपचाररूपं भावपूजाष्टकं वितन्यते । तत्र गृहस्थः अनेकसंसारभावत्रस्तः कदाचिद् निर्विकारानंदरूपां जिनमुद्रां विलोक्य प्राप्तवैराग्यः भवोद्विग्नः सर्वासंयमत्यागाभिलाषी परमसंवररूपं परमेश्वरं सद्भक्त्या पूजयति, स्वयोगसपरिग्रहादिकं सर्वथा त्यक्तुमसमर्थः सर्वमपि तीर्थकरभक्तियुक्तं करोति, ततश्च आत्मा स्वगुणपरिणतः स्वरूपसाधनारूपां भावपूजां करोति । तत्स्वरूपं नामतः पूजा इति कथनं । स्थापनातः तल्लिंगाचरणं । द्रव्यतः चंदनादिमिः, शून्योपयोगेन च । भावतो गुणैकत्वरूपा सा व्याख्यायते-- दयाम्भसा कृतस्नानः, सन्तोषशुभवस्त्रभृत् । विवेकतिलकम्राजी, भावना पावनाशयः ॥ १॥
.२००
For Private And Personal Use Only