________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
भक्तिश्रद्धानघुसृणोन्मिश्रकश्मीरजद्रवैः। नवब्रह्मगतो देवं, शुद्धमात्मानमर्चय ॥ २ ॥
व्या०-दयांभसा इति भक्तिश्रद्धानेति-श्लोकद्वयस्य युग्मतो व्याख्यानं दर्शयति । हे उत्तम ! एवंविधं 'शुझात्मानं' अनंतज्ञानादिपर्यायं आत्मरूपं देवं, नव इति नवप्रकारब्रह्मरूपं गतः अर्चय पूजां कुरु, कीदृशो भूत्वा ? इत्याह-'दया' द्रव्यभावस्वपरमाणरक्षणारूपा सा एव 'अंभः' जलं पानीयं तेन कृतं स्नानं पाविश्यं येन सः । संतोषः पुद्गलभावपिपासा शोकाभावरूपः स एव शुभानि वस्त्राणि तेषां 'मृत्' धारकः । विवेकः स्वपरविभजनरूपं ज्ञानं तदेव तिलकं तेन माजी शोभमानः । पुनः कथंभूतः ? 'भावना' अहंद्गुणैकत्वरूपा तया 'पावनः' पवित्रः "आशयः' अमिप्रायः यस्य स पुनः ‘भक्ति' आराध्यता 'श्रमा' प्रीतिः 'एसअटे परम?' एवंरूपा तद्रपेण घुसणेन उन्मिभं कश्मीरजं तस्य द्रवाः तैः शुद्धात्मा परमेश्वरः स्वकीयात्मापि दीव्यति स्वरूपे इति देवस्तं अर्चय पूजय तद्भक्तिरतो भव इति ॥ १ ॥ २ ॥ - अथ अनुक्रमेण पूजाप्रकारानाहक्षमापुष्पसजं धर्म-युग्मक्षौमद्वयं तथा । ध्यानाभरणसारं च, तदङ्गे विनिवेशय ॥३॥
व्या०-क्षमापुष्पस्रजमिति-हे भव्य ! तदंगे आत्मस्वरूपरूपे अंगे 'क्षमा' क्रोधोपशमनवचनं धर्मक्षमारूपां 'स्रज' पुष्पमालां निवेशय' स्थापय । तथा तथैव 'धर्मयुग्मं' श्रावकसाघुरूपं श्रुतचारित्ररूपं वा क्षौमवस्त्रद्वयं निवेशय । च पुनः
२०१
For Private And Personal Use Only