________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Muna
AnnanAmAAAAAAAAAA
ज्ञानमंजरी टीका.
wwer mirmirmwarima यद्वा तत्फलमीच्छसि । तर्हि त्वं तत्कृते स्वकृतत्वस्याये स्वस्य जीवस्य यत्कृतं निर्मितं कर्म तद्भावस्तत्वं तद्पो यः स्मयोऽहंकारस्तस्मिन् निमित्तभूते । हुते. हुतमग्नौ प्रक्षेषणं मयाः निर्मितमिति अहंकारहोमनिमित्त इति यावत् । कर्मणो ज्ञानावरुणादिकस्य ब्रह्मांझौ. ब्रह्म शुद्धतीवोपयोगिज्ञानं निराशंसतपश्च तद्रषो योऽग्निरूच गच्छतीति व्युत्पत्तिमत्तेजस्तस्मिन् : आहुतिकरणं युक्तं घटमानं, न तु पश्चादेरित्यर्थः ॥ ६ ॥ . अथ श्लोकद्वयेन स्वरूपफलदर्शनपूर्वकमुपसंहरतिब्रह्मण्यर्पितसर्वस्वो, ब्रह्मदृग्ब्रह्मसाधनः। ब्रह्मणाजुह्वदब्रह्म, ब्रह्मणि ब्रह्मगतिमान् ॥ ७ ॥ ___व्या०-ब्रह्मण्यर्पणमपीति 'ब्रह्मणि आत्मनि अर्पितसर्वस्वः, आर्पितं स्थापितं सर्वस्वं सर्वात्मपरिणमनरूपं इत्यनेन ज्ञानवीर्यलाभभोगादयः स्वक्षयोपशमीभूता · भावे आत्मनि एवार्पिताः स्थापिता येन सः । तथा 'ब्रह्म' आत्मज्ञान का 'हम्' दृष्टिदर्शनं श्रद्धानं ब्रह्मणि साधनं यस्य स ब्रह्मसाधनः, अथवा-- 'ब्रह्म' आत्मा एव साधने यस्य स एवंविधः साधकजीवः ‘ब्रह्मणि' साधकावस्थापरिणतस्वात्मनि आधारभूते ब्रह्मणात्मज्ञानवीर्यायां, अब्रह्म अज्ञानं पुद्गलकम चात्मनः मिन्नं अजुहवत् भस्मीचकार, कथंभूतः साधकपुरुषः ? 'ब्रह्म' ब्रह्मचर्य स्वरूपरमणरूपं तस्य गुप्तिमान् तद्गुप्तियुक्तः इत्यनेन चात्मा कर्ता आत्मस्वरूपेण करणमूतेन आत्मस्वरूपरोधकं ज्ञानावरणादि: कर्म आत्मनि:स्थितं निवारयति ॥७॥ ब्रह्माध्ययननिष्ठावान् , परब्रह्मसमाहितः। ब्राह्मणो लिप्यते नापैर्नियागप्रतिपत्तिमान् ॥८॥
१९९
For Private And Personal Use Only