________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८६
नियागाष्टकम्
wwwww
..........in
सवाणां मशस्ता साधने गृहीता, तथा च मुनिविनये शासनविनये हर्षादिजीवघातोऽपि न वधाय । तथा प्रज्ञापनायांभाषाचतुष्टयमपि मुनीनां, इत्यादिकं, ततः श्रावकाणां तु हिंसादिसर्वपरवृत्तिगुणिभक्तिरूपा हिता, तु पुनः योगिनः ज्ञानं ज्ञानरमणमेव हितं, नहि मुनि यत्तिरतः ज्ञाने रममाणस्तत्वं साधयति ॥४॥ भिन्नोद्देशेन विहितं, कर्म कर्मक्षयाऽक्षमम् । क्लप्तभिन्नाधिकारं च, पुत्रेट्यादिवदिष्यताम् ॥५॥ ___ व्या०-मिन्नोद्देशेनेति-भिन्नोद्देशेन परमात्मसाधनोदेशमंतरेण 'मिनेन' पुण्यादिवांछोद्देशेन 'विहितं' कृतं 'कर्म' पूजादिकार्य कर्मक्षयाय अक्षमं असमर्थ भवति, नहि मिनसाध्येन कृतं दयादानादिकं धर्मसाध्यशून्यता सत्प्रवृत्तिः बालक्रीडातुल्या कल्पितमिन्नाधिकारं कर्म कार्य पुढेष्टयादिवत् इष्यतां इति, यथा जलार्थिनी वनिता कूपोपकंठे जलार्थ वटे च रज्जुबंधं कुर्वती परपुरुषरूपव्याकुलितचित्ता स्वपुः एव पाशबंधं कृतवती दुःखभाजनं भवति, एवं साध्यच्युतानां क्रिया दुःखहेतुरूपा उक्ता ॥५॥ ब्रह्मार्पणमपि ब्रह्म, यज्ञान्तर्भावसाधनम् । ब्रह्मानौ कर्मणो युक्तं, स्वकृतत्वस्मये हुते ॥ ६ ॥ ___व्या०-ब्रह्मार्पणमिति-भो विद्वन् । यदि त्वं ब्रह्मार्पणं सर्व स्वकृतं ब्रह्मणि परमेश्वरे यदर्पणं प्रयच्छनं तत्रैवारोपणं एतत्सर्व परमेश्वरकृतं जातं मत्कृतं न किंचनेति धीरिति यावत् । तत् ब्रह्मयज्ञान्तर्भावसाधनं ब्रह्मयज्ञो ज्ञानयज्ञस्तस्य योऽन्तर्भाव आत्मीयभावफलप्राप्तिस्वीकारस्तस्य साधनंतन्निष्पादकत्वकारणं मन्यसे,
For Private And Personal Use Only