________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज्ञानमंजरी टीका.
3
व्या० - पापध्वंसिनीति - भो दक्ष । निष्कामे सर्वपरभावाभिलापरहिते 'पापध्वंसिनि' पापकर्मविनाशके आत्मस्वरूपे ज्ञानं स्वपरावयवभासकं तद्रूपे यज्ञे रतो भव तन्मयो भव । किं 'भूति - कामनया' इहलोकसुखेच्छया 'सावद्यैः पापसहितैः 'आविलैः ' म्लानैः यज्ञैः किं ? न किमपि न हिताय ते तत्करणं न युक्तं, आत्मस्वरूपो यागः तन्मयैकत्वपरिणतिः कर्माभावकरी तेन तत्र यतितव्यम् ॥ २ ॥ वेदोक्तत्वान्मनः शुद्ध्या, कर्मयज्ञोऽपि योगिनः । ब्रह्मयज्ञ इतीच्छंतः, श्येनयागं त्यजति किम् ? ॥३॥
Acharya Shri Kailassagarsuri Gyanmandir
व्या० - वेदोक्तत्वादिति - वेदोक्तत्वात् मनः शुद्ध्या कर्मयज्ञोऽपि ब्रह्मयज्ञ इति इच्छंतः श्येनयागं किं त्यजति ? इति स्वमतकल्पनां कुर्वेति मूढाः ते निषेधनीयाः, नहि संसारकामनया हिंसा सुखकरी भवति, साध्यशुद्धिमंतरेण न प्रयासो हिताय, अतो नैव कर्तव्यं इति ॥ ३ ॥ ब्रह्मयज्ञः परं कर्म, गृहस्थस्याधिकारिणः । पूजादि वीतरागस्य, ज्ञानमेव तु योगिनः ॥ ४ ॥
·
व्या० - ब्रह्मयज्ञ इति - 'गृहस्थस्य' सावद्यप्रवृत्तस्य 'अधिकारिणः' योग्यस्य न्यायोपार्जितादिवित्तवतः वीतरागस्य पूजादिकर्मकरणं परं उत्कृष्टं ब्रह्मयज्ञ इति ज्ञेयं, संवराभावे आस्रवाणां परावृत्तिः प्रशस्तकरणं युक्तं । उक्तं च-
३८५.
For Private And Personal Use Only
1
अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे, दव्वथये कूवदितो ॥ १ ॥
इति रागपापस्थानस्य प्रशस्तताकरणोपदेशः । आगमे सर्वा
49
१९७