________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३७९
व्या० - कृपानिर्वेद इति 'कृपा' अनुकंपा, दुःखितेषु दुःखमोचनलक्षणः आर्द्रतापरिणामः । 'निर्वेद:' भवोद्वेगः चतुर्गतिषु चारकवद्भासनं । संवेगः मोक्षाभिलाषः । 'प्रशमः' कषायाभावः । एते परिणामाः, योगो मोक्षोपायः, तस्योत्पत्तिकारिण: कारणशीलाः, एतादृग्परिणामपरिणतस्य संसारोद्विग्नस्य, शुद्धात्मस्वादेच्छकस्य, योगसाधना भवति । अत्र योगपंचके 'प्रत्येकं एकैकस्य चत्वारो भेदा भवति, ते च इमे - इच्छा १ प्रवृत्तिः २ स्थिरता ३ सिद्धिः ४ इत्येवं मेदा ज्ञेया । उक्तं च विंशतिकायां-
इक्किको य चउद्धा, इत्थं पुन तत्तणो मुणेयधो । इच्छा पवितिथिरसिद्धिमेयओ समयनीईए ॥ १ ॥ इत्यादि ॥ ३ ॥ इच्छा तद्वत्कथाप्रीतिः, प्रवृत्तिः पालनं परम् । स्थैर्य बाधकभीहानिः सिद्धिरन्यार्थसाधनम् ॥४॥
व्या० - इच्छा तद्वदिति, 'इच्छा' साधकभावाभिलाषः, तत् योगपंचकं येषु विद्यते ते तद्वंतः श्रमणाः तेषां कथासु गुणकधनादिषु प्रीतिः इष्टता । उक्तं च हरिभद्रपूज्यैः- "तनत्तकहापीई सगयावि परिणामणी इच्छा" इति तस्य सम्यग्दर्शनादिगुणमवृद्धिहेतुभूतं क्रियाश्रुताभ्यासपालनं परंपरा उत्कृष्टा सा प्रवृत्तिः । उक्तं च "सवन्नुपामसारं, तप्पालणगा पवित्तीओ" || इति इत्येवं योगद्वयं बाह्यरूपत्वात् क्रियामुख्यत्वात् साध्यावलबिनां कारणरूपं । शेषाणां तु शुभबंधनिबंधनं स्थैर्य बायकाशुद्धाध्यवसाया अतिचाराः तेषां भीर्भयं तस्या हानिः अभावनिरतिचारगुणपालनारूपं यत्र क्षयोपशमोऽपि अतिगुणसाधनापरिणमनेन सहजभावत्वात् निर्दोषगुणसाधना भवति यत्र तब
१९१
For Private And Personal Use Only