________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८०
"योगाष्टकम्
Amram
स्थैर्य। उक्तं च-"तह चेव पयपाहगचिंतारहिय थिरत्तणं ने । शुद्धानां अर्थानां परमात्मरूपाणां साधनं स्वरूपावलंबनं सिद्धिः । उक्तं च-सव्वं परमत्थसाहगं रूचं पुण होइ सिद्धत्ति । एवं समभेदं ज्ञेयम् ॥ ४॥ __ यावत् ध्यानैकत्वं न भवति तावत् न्यासमुद्रावर्णशुद्धिपूर्वक आवश्यकचैत्यवंदनप्रत्युपेक्षणादिकं उपयोगयोगचापल्यवारणार्थमवश्यं करणीयं, महद्धितकरं सर्वजीवानां, तेन स्थानवर्णक्रमेण तत्वप्राप्तिरिति । अर्थालम्बमयोश्चैत्य-चन्दनादौ विभावनम् । श्रेयसे योगिनः स्थान-वर्णयोर्यत्न एव च ॥ ५॥
व्या०-अर्थालंबनयोरिति 'अर्थों वाक्यस्य भावार्थः, 'आलंबनं' वाच्ये पदार्थे अर्हत्स्वरूपे उपयोगस्यैकत्वं, अर्थश्च आलंबनश्च अर्थालंबनौ, तयोः चैत्यवंदनादौ अर्हद्वंदनाधिकारे 'विभावनं स्मरणं करणीयं श्रेयसे कल्याणार्थ, च पुनः स्थानं वंदनककायोत्सर्गशरीरावस्थानं आसनमुद्रादि, वर्णः अक्षरादि, त्योः शुद्धौ यत्मः श्रेयसे कल्याणाय भवति । उक्तं चावश्यके-"जं. वा इदं वच्चामेलियं, हीणखरं, अचक्खरं, पयहीणं, विणायहीणां, जोमहीणं, घोसहीणं, सुदिन्नं, दुडुपडिच्छियं, अकाले कओ सज्झाओ, तस्स मिच्छा मि दुक्कडं' इत्यनेन द्रव्यक्षेत्रकालविशुद्धौ भावसाधनसिद्धिः तेन द्रव्यक्रिया हिता ॥५॥ आलम्बनमिह ज्ञेयं, द्विविधं रूप्यरूपि च । अरूपि गुणसायुज्य-योगोऽनालम्बनं परम् ॥६॥
व्या०-आलंबनमिति इह जैनमार्गे 'आलंबनं द्विविधं ज्ञेयं
१९२
For Private And Personal Use Only