________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३७७
AAAAAAAAAAAWAJ
गत्य' ज्ञात्वा तदनंतर मुनिः 'अनुभवेन' स्वरूपग्राहकदृष्ट्या 'स्वसंवेद्यं स्वेन आत्मना संवेद्यं ज्ञानस्वादनयोग्य 'परब्रह्म' शुभास्मस्वरूपं 'अधिगच्छति' प्राप्नोति । अत उक्तं च आगमे-"स समयं जाणेई, परसमयं जाणेई, ससमयं परसमयं जाणित्ता अप्पाणं भाविता भवई ॥” अत एवं आगमाभ्यासपटुमतिः तत्त्वज्ञानानुभवेनात्मस्वरूपं प्राप्नोति तेलानुभवाभ्यासो विधेयः ॥८॥
इति व्याख्यातं अनुभवाटकम् ॥२६॥
अथ योगाष्टकम् ॥ २७॥
अथ योगाष्टकं चितन्यते, अत्र मिथ्यात्वादिहेतुगतमनोवाकाययोगत्रयं तच्च कर्मवृद्धिहेतुत्वात् न ग्राह्य, किं तु मोक्षसाधनहेतुभूतं शुझात्मभावनाभावितचेतनावीर्यपरिणामसाधककारकप्रवर्तनरूपं ग्राह्य, द्रव्यभावमेदं बाह्याचारविशोधिपूर्वकाभ्यन्तराचारशुद्धिरूपम् । मोक्षण योजनाद्योगः, सर्वोप्याचार इष्यते। विशेषस्थानवार्था--लम्बनैकाग्र्यगोचरः॥१॥ ___व्या०-मोक्षेणेति सकलकर्मक्षयो मोक्षः, तेन “ योजनात् योगः " उच्यते स च सर्वोऽप्याचारः जिनशासनोक्तचरणसमतिकरणसप्ततिरूपः, मोक्षोपायत्वात् योग इष्यते, तत्र तत्र विशेषेण स्थानं १ वर्णः २ अर्थः ३ आलंबनं ४ एकाग्रता ५ इति पंचप्रकारः योगः मोक्षोपायहेतुः मतः, इत्यनेनानादिपरभावासक्तभवनमणग्रहात् पुद्गलभोगमन्नानां न भवति, अयममिप्रायःयतोऽस्माकं मोक्षः साध्योऽस्ति, स च गुरुवचनस्मरणतत्वजि
48 .
For Private And Personal Use Only