________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७६
अनुभवाष्टकम् .
परोपयोगे मुक्तशुद्धानुभवं शुद्धज्ञानं विना (ज्ञानिनः ) 'निर्द्वनं' पर - संनिकर्षरहितं, 'निर्मलं ब्रह्म ज्ञानं आत्मानं कथं पश्यंति ? नहि कर्मोपाधिरूपा बाह्यप्रवृत्तिः परब्रह्मग्राहिका भवति, अनुभवज्ञानी एव शुद्धात्मस्वरूपं पश्यति ॥ ६ ॥ न सुषुप्तिर मोहत्वान्नापि च स्वापजागरौ । कल्पना शिल्पविश्रान्तैस्तुयैवानुभवे दशा ॥ ७ ॥
घ्या०-न सुषुप्तिरिति तथा च नयचक्रे दशाश्चतस्रः, तत्र बहुशयनरूपा मिथ्यात्वस्थानां ' शयनावस्था' सम्यग्दृशां, 'जागरा' प्रमत्ताप्रमत्तमुनीनां, तुर्या च ' उत्तरा' ध्यानस्थानां, उत्तरोत्तरा सयोगिकेवलिनां । पुनः श्रीविंशतिकायाम् ” सुषुप्तिः तीत्रनिदाघूर्णि तचेतसां अनुभवज्ञानिनः न, कस्मात् ? अमोहत्वात्, अनुभवी मोहरहितः सुषुप्तिस्थः मोहमयः, तेनानुभवज्ञानवतः सुषुप्तिर्न, तवानुभविनः स्वापदशा तथा जागरापि न, एतद्दशाद्वयं कल्पनोपेतं अनुभवः कल्पना विकल्पचेतना, तस्याः शिल्पं विज्ञानं तस्य विश्रांतिः अभाव इत्यर्थः, तस्याः अनुभवे तुर्या एव दशा वाच्या, यद्यपि तुर्या दशा सर्वत्र तथापि यथार्थश्रुतभावितचेतनानां केवलकरणत्वेनोपचारात् स्वरूपाच्च तुर्यैव दशा वक्तुं शक्या, नहि दशात्रयसंभवः तेनानुभवः समाधिहेतुः ॥ ७ ॥ अथ सिद्धान्तीकरोति । अधिगत्याखिलशब्द- ब्रह्म शास्त्रदृशा मुनिः । स्वसंवेद्यं परं ब्रह्मानुभवेनाधिगच्छति ॥ ८ ॥
0
व्या० -अधिगत्येति पूर्वपूर्वसेवनास्थाने 'शास्त्रदृशा' शास्त्रग्रहणबुद्ध्या 'अखिल' समस्तं ' शब्दब्रह्म षभाषावाङ्मयं 'अधि
૦૯
For Private And Personal Use Only