________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
mmmmmu
ज्ञायेरन् हेतुवादेन, पदार्था ययतीन्द्रियाः। कालेनैतावता प्राज्ञैः, कृतः स्यात्तेषु निश्चयः॥४॥
व्या०-ज्ञायेरन् इति-'यदि' यावता कालेनातींद्रिया अगोचराः पदार्था धर्मास्तिकायादयः हेतुवादेन युक्तिप्रमाणसमूहेन, केषां न कल्पनादर्वाग् अनुभवः कृतः स्यात् तदा तेषु धर्मास्तिकायादिषु शुद्धात्मनिश्चयः कृतः स्यात् प्राज्ञैः, इत्यनेन परद्रव्यचिंतनकालमात्रेणात्मस्वरूपचिंतने स्वपरावबोधो भवति, तेन सद्भिः स्वस्वभावभावने मतिः कार्या, येन निःप्रयासत एव 'जे एगं जाणइ ते सव्वं जाणइ' इति वचनात् बोधपरित्यागपरिणतिर्भवति ॥ ४ ॥ केषां न कल्पनाद:, शास्त्रक्षीरानगाहिनी। विरलास्तद्रसास्वादविदोऽनुभवजिह्वया ॥ ५॥ ___ व्या०-केषांनेति-केषां पुरुषाणां कल्पना मतिप्रवृत्तिरूपा दर्वी पाककरणचाटुका शास्त्रमेव क्षीरानं परमानं तस्य गाहिनी अवगाहिनी न ? अपि तु अस्त्येवेति बुद्धिविकल्पनया शास्त्रगाहिनी मतिर्बहूनां परं अनुभवजिलया तद्रसास्वादविदः तेषां शास्त्राणां रसः तद्रसः तस्यास्वादः तस्य विदः ज्ञानिनः विरला अल्पाः शास्त्रस्वादग्राहिण इति ॥५॥ पश्यन्ति ब्रह्म निद्वंद, निढानुभवं विना। कथंलिपिमयी दृष्टिाङ्मयी वा मनोमयी ॥६॥
व्या०-पश्यंति इति-'लिपि मयी' संज्ञाक्षरमयी, 'वाङ्मयी' व्यंजनाक्षरमयी, 'मनोमयी' दृष्टिः योगप्रवृत्तिरूपा 'निद्वानुभवंविना
For Private And Personal Use Only