________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुभवाष्टकम् mmmmam मावनाज्ञानैकत्वरूपः करणीय इति । उक्तं च समुच्चये, मतिश्चतोत्तरभावकेवलात् अव्यवहितपूर्वभावी प्रकाशोऽनुभवः ॥ १ ॥ व्यापारः सर्वशास्त्राणां, दिक्प्रदर्शन एव हि । पारन्तु प्रापयत्येकोऽनुभवो भववारिधेः॥२॥
व्या०-व्यापार इति-'सर्वशास्त्राणां चपुनरनुयोगकथकानां, 'व्यापार' उद्यमः अभ्यासः 'दिक्प्रदर्शन एव' मार्गदर्शक एव, यथाहि-पथिकस्य मार्गदर्शकः मार्ग दर्शयति, परं पुरप्राप्तिः सुखचंक्रमणेनैव, एवं शास्त्राभ्यासः परमप्रयासा स्वतत्त्वसाधनविधिदर्शकः, 'भववारिधेः भवसमुद्रस्य पारं तु एकः अनुभवः प्रापयति, नान्यः श्रीसूत्रकृताङ्गादिषु अध्यात्मभावेन सिद्धिरित्युक्तत्वात्, तेन सद्गुचरणचंचरीकैः आत्मस्वरूपभासनतन्मयत्वं निष्पाद्यम् ॥२॥ अतीन्द्रियं परब्रह्म, विशुद्धानुभवं विना । शास्त्रयुक्तिशतेनापि, न गम्यं यद्बुधा जगुः ॥३॥ . व्या०-अतीन्द्रियमिति 'बुधाः' पंडिता इति जगुः इतीति किं ? 'शास्त्रयुक्तिशतेनापि' शास्त्रस्य युक्तयः तेषां शतेनापि अनेकागमरहस्यावबोधेनापि 'विशुद्धानुभवं विना निर्मलानुभवमंतरेण अतींद्रियं इंद्रियज्ञानागम्यं परं उत्कृष्टं ब्रह्म चैतन्यं न गम्यं न ज्ञातुं शक्यं । न घटपटादिपदार्थसार्थसमर्थनशब्दसाधनस्वस्वमतन्यासमुधाचिंतनविकल्पतल्पस्थाः सम्यग् ज्ञानिनः स्याद्वादानेकांतधर्मास्पदीभूतानंतपर्यायोत्पादव्ययपरिणमनाखर्वसंज्ञयावबोधामू खंडानंदात्मस्वरूपज्ञानं तु तत्त्वानुभवलीना एवास्वादंते, न वचोयक्तिव्यक्तीकृतवाग्विलासा इति ॥ ३ ॥
For Private And Personal Use Only