________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३७३
नैगमतः तदिच्छकः, संग्रहतः उपयुक्तानुपयुक्तस्य तत्कारणाश्रितयोग्यत्वे, व्यवहारतः श्रुताभ्यासवाचनापृच्छनाभोक्तुः, जुसूत्रेण मनसो विकल्परोधपूर्वक तन्मयत्वे वर्त्तमानस्य, शब्दनयेन ज्ञानोपयोगगृहीतानंत धर्मात्मकात्मद्रव्यानंतताज्ञानानुभवे सति, समभिरूढनये तु मुख्यज्ञानदर्शनगुणात्मकत्वानि तद्मणतद्भोगतदैकत्वरूपानुभवः, एवंभूतनयेनैक मुख्यपर्यायतन्मयत्वानुभवः, अत्र यस्यानुभवस्तस्य भावना कार्या । इत्येवं स्वरूपानुभवमंतरेण ज्ञानाचरणादिकं द्रव्यरूपमेव, अतः सानुभवेन भवितव्यं, सर्वत्र गुणपरिणतौ अनुभवेनैवानंदता, नो चेत् शब्दज्ञानशून्यशब्दश्रवणवत् अपार्थकमेवेति । श्रूयते च कष्टानुष्ठान कोटिकरणेऽपि न तवप्राप्तिः, कुलबालकादीनामिवानुभवमंतरेण परिग्रहप्रसंगोपचितविषयसंगसद्भावेऽपि अन्तर्मुहूर्तात्मानुभवाभ्याससाध्यरसिकैः तदादरोपदेश उपदिश्यते ।
सन्ध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् । बुधैरनुभवो दृष्टः, केवलार्कारुणोदयः ॥ १ ॥
"
व्या०-संध्येवदिनरात्रिभ्यामिति 'बुद्धैः' अवगततत्वस्वरूपैः । यथा दिनरात्रिभ्यां यथामध्यं संध्या एव दृष्टा तथा केवलश्रुतयोः केवलज्ञानश्रुतज्ञानयोः मव्यं अनुभवः दृष्टः, श्रुतज्ञानस्य चिरकालाभ्यासितस्य कार्यरूपः केवलज्ञा नस्य सम्यगदृष्टिगुणस्थानकसाध्यत्वेन लक्षीकृतस्यासाधारणकारणरूपः अनुभवः अध्यात्मैकत्वानंदरूपः दृष्टः, कथंभूत अनुभवः केवलं सकलासहायिज्ञानमेवार्कस्तस्य अरुणोदयः अरुणः सूर्यसाराथेत्तस्य उदयः पूर्व अरुणोदयेन तत्सूर्योदयो भवति, एवं अनुभवोदय केवलादयः अतोऽनुभवपूर्वकं केवलज्ञानं अनुभवश्च
१८५
For Private And Personal Use Only