________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
VANuuuuuu
सर्वाक्षरसंपन्नस्य, निर्विकल्पोपयोगकाले उत्सर्गभावशास्त्रपरिणमनोपयुक्तत्वात् इति । अतः परमकारुणिकोपदिष्टं शास्त्रं हितं उक्तं च तवार्थभाष्ये--
एकमपि जिनवचनादस्मानिर्वाहकं पदं भवति । श्रूयन्ते चानन्ता सामायिकमात्रपदसिद्धाः ॥ १॥ तस्मात्तत्प्रामाण्यात्समासतो व्यासतश्च जिनवचनम् । श्रेय इति निर्विकारं, ग्राह्य धार्य च वाच्यं च ॥२॥ न भवति धर्मः श्रोतु, सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या, वक्तुस्त्वेकान्ततो भवति ॥३॥ श्रममचिन्त्यात्मगतं, तस्मात् श्रेयः सदोपदेष्टव्यम् ।
आत्मानं च परंच, हितोपदेष्टानुगृह्णाति ॥ ४ ॥ इति अत एव शास्त्रादरोत्पादनार्थमुपदिशति-- चर्मचक्षुर्भूतः सर्वे, देवाश्चावधिचक्षुषः । सर्वतश्चक्षुषः सिद्धाः, साधवः शास्त्रचक्षुषः॥१॥ ___व्या०-चर्मचक्षुर्मत इति-सर्वे तिर्यग्मनुष्याः चर्मचक्षुर्मतः, मतिश्रुतज्ञानावरणीयवीर्यातसयक्षयोपशममूलजातिनामकर्मपर्याप्तिनामकर्मशरीरनामकर्मनिर्माणनामकर्मोदयजन्यचक्षुर्भूतः तद्धराः, च पुनः 'देवाः सुरा अवधिचक्षुषः अवधिज्ञानावरणीयावधिदर्शनावरणीयक्षयोपशमसमुत्थज्ञानदृष्टयः, सिद्धाः सर्वचक्षुर्धराः सर्वग्रदेशकेवलोपयोगमयाः, “साधवः' निग्रंथाः, शास्त्रचक्षुषः शास्त्रावलंबिविज्ञानधराः । उक्तंच।
आगमचक्खू साहू, चम्मचक्खूणि सबभूआणि । देवा य ओही चक्खु, सिद्धा पुण सबओ चक्खू ॥१॥
For Private And Personal Use Only