________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AAAAAAAAAAPARNAARVA
aromorronorm
३६४
शास्त्राष्टकम्. अतो निग्रंथानां वाचनादिस्वाध्यायमुख्यत्वम् ॥ १॥ पुरःस्थितानिवोधिस्तियक्लोकविवर्तिनः । सर्वान् भावानवेक्षन्ते, ज्ञानिनः शास्त्रचक्षुषा ॥२॥ ___व्या-पुरःस्थितानिति-ज्ञानिनः' 'शास्त्रचक्षुषा' आगमोपयोबेन 'ऊर्ध्वाधस्तिर्यगविवर्तिनः, त्रैलोक्यवर्तिनः 'भावान्' पदार्थस्वरूपान् 'सर्वान्' सूक्ष्मबादरान् सहजान् विभावजान परोक्षानपि क्षेत्रांतरस्थानपि आगमबलेन पुरः स्थितानिव सन्मुखस्थानिव अवेक्षते पश्यति । अत्र दर्शनं श्रुतक्षयोपशमं ज्ञेयम् ॥२॥ शासनात् त्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते । वचनं वीतरागस्य, तत्तु नान्यस्य कस्यचित् ॥३॥
व्या०-शासनादिति-'बुधैः' विद्वद्भिः च पुनः 'त्राणशक्तेः' भवभीतकर्मावगुंठीतविभावभुग्नजीवानां त्राणं रक्षणं तस्य शक्तिः सामथ्र्य यस्य सः, तस्य शासनात् शिक्षणात् शास्त्रं निरुच्यते व्युत्पाद्यते, मोक्षमार्गस्य शासनात् शास्त्रं इति तत्त्वार्थकृत्, पुनः तद्वीतरागस्य सर्वमोहक्षयनिष्पन्नपरमशमस्वभावस्य वचनं मोक्षमार्गोपिदेशकम् । उक्तं च उमास्वातिपूज्यैः ।
केवलमधिगम्य विभुः, स्वयमेव ज्ञानदर्शनमनंतम् ।
लोकहिताय कृतार्थोऽपि, देशयामास तीर्थमिदम् ॥ १ ॥ अतस्तस्यैव वचनं मोक्षांगं अन्यस्य कस्यचित् असर्वज्ञस्य सर्वज्ञमानिनः वचनं न मोक्षहेतुः ॥ ३॥ शास्त्रे पुरस्कृते तस्माद्वीतरागः पुरस्कृतः। पुरस्कृते पुनस्तस्मिन्नियमात्सर्वसिद्धयः ॥४॥
१७६
For Private And Personal Use Only