________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्राष्टकम्
अथ शास्त्राष्टकम् ॥ २४ ॥ अथ क्रमायातं यथार्थोपयोगकारणभूतं शास्त्राष्टकं प्ररूप्यते, तव शास्त्रस्वरूपं, ऐकांतिकात्यंतिकनिद्वनिरामयपरमात्मपदसाधनस्याद्वादपद्धत्या यत्र शास्यते तत्र शास्त्रं शासनं, न भारतरामायणादयः इहलोकशिक्षारूपाः शास्त्रव्यपदेशं लभन्ते तथाजैनागममपि सम्यग्दृष्टिपरिणतस्य शुद्धवक्तुरेव मोक्षकारणं, मिथ्यात्वोपहतानां तु भवहेतुरेव । उक्तं च-नंदीसूत्रे तच्चैवं-“दुवालसंगं गणिपिंडगं सम्मत्तपरिगाहिअं सम्मसुअं, मिच्छत्तपरिग्गाहिअंमिच्छसुअंग ॥ तथा च पूज्यैः ।
सदसदविसेसणाओ, भवहेउज्जहडिओवलंभाओ।। नाणफलाभावाओ, मिच्छादिहिस्स अन्नाणं ॥१॥
इत्यादिजीवाजीवादिगुणपर्यायविभजनसस्रिवत्यागकर्तुरपि तनैश्चयिकक्षाकृतेन सम्यग्दर्शनं, तेन यथार्थस्वपरविभागविभक्तस्वरूपोपादेयत्वपरिहेयत्वविज्ञानपूर्वकनिमित्तोपादानकारणनिर्धारशुद्धाविनश्वरस्वसिद्धपरिणतौ धर्मत्वप्रतीतिः सम्यग्दर्शनं इत्येवं सम्यग्दर्शनयुक्तस्य रुचिकृतपरमात्मभावस्य तत्साधनोपायानवच्छिन्नकथनं शास्त्रं, तच्च नामादिभेदतः, नामतः आचारांगादि। स्थापनातः सिचक्रादौ स्थापितं श्रुतज्ञानं । द्रव्यतः पुस्तकन्यस्तं, अथवा-अनुपयुक्तपुरुषस्य क्षयोपशमगतं जैनागमं । नयविचारे तु-नैगमेन वचनोल्लापव्यंजनाक्षरादिकं, संग्रहतः जीवपुद्गलौ-द्रव्येद्रियभावेंद्रिये शास्त्रं तद्धेतुत्वात्, व्यवहारतः पठनपाठनश्रवणात्मकं, ऋजुसूत्रतो मनननिदिध्यासनरूपं, शब्दतः तत् श्रुताधारात्मस्पर्शज्ञानपरिणामलक्षणं, भावक्षयोपमोपयुक्तस्य, सममिरूढतः तन्मयस्य सर्वाक्षरलब्धिमतः शुद्धोपयोगं, एवंभूततः
१७४
For Private And Personal Use Only