________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
मोहहेतुरूपजैनशासनदेवादि सुखहेतुरूपं, व्यामुांति ऐश्वर्यादिषु भवाब्धिमत्स्या इव मिथ्यावासिता जीवाः, तेन भबोद्वेग एव करणीयः, यत्रात्मसुखहानिः तस्य कोऽमिलापः लामिति ? इत्येवोपदिशति-- यस्य गम्भीरमध्यस्याऽज्ञानवजमयं तलन। रुद्धा व्यसनशैलौघैः, पन्थानां यत्र दुर्गमाः ॥१॥ पातालकलशा यत्र, भृताः तृष्णामहानिः। कषायाश्चित्तसङ्कल्प-वेलावृद्धिं वितन्वते ॥२॥ स्मरौर्वाग्निर्बलत्यन्तर्यत्र स्नेहेन्धनः सदा । यो घोररोगशोकादि-मत्स्यक पसङ्कुलः ॥३॥ दुर्बुद्धिमत्सरद्रोहैर्विद्युदुर्वातगर्जितैः । यत्र सांयात्रिका लोकाः, पतन्त्युत्पातसङ्कटे ॥४॥ ज्ञानी तस्माद्भवाम्मोधेर्नित्योद्विग्नोऽतिदारुणात् । तस्य सन्तरणोपायं, सर्वयत्नेन काक्षति ॥५॥
यस्येति १ पातालेति २ स्मरौति ३ दुर्बुद्धीति ४ ज्ञानीति ५ श्लोकपंचकं व्याख्यायते । ज्ञानी तस्य भवसमुद्रस्य संतरणोपायं पारगमनोपायं सर्वयत्नेन 'कांक्षति' इच्छति इत्यर्थः, तस्य कस्य ? यस्य गंभीर मध्यं यस्यं गंभोरमध्यस्तस्य अप्राप्तमध्यस्य भवार्णवस्य अज्ञानं जीवाजीवविवेकरहित तत्त्वबोधशून्यं मिथ्याज्ञानं, तदेव वज्रमयं तलं दुर्भेदं यत्र भवांभोद्यौ, व्यसनशैलौवैः कष्टपर्वतसम हैः रुद्धाः पंथानः-मार्गाः सतिगमनप्रचाराः दुर्गमा
45
For Private And Personal Use Only