________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
कर्मविपाक चिन्तनाष्टकम्.
साम्यं विभर्ति यः कर्म विपाकं हृदि चिन्तयन् । स एव स्याच्चिदानन्द मकरन्दमधुव्रतः ॥ ८ ॥
व्या० - साम्यमिति य आत्मार्थी 'कर्मविपाकं' शुभाशुभवि - पाकं चिंतयन्, 'हृदि' चित्ते 'साम्यं' तुल्यत्वं इष्टानिष्टतारहितं विभर्त्ति स एव योगी चिदानंदमकरंदमधुव्रतः, ज्ञानानंदस्य मकरंद: - रहस्यं तस्य मधुव्रतः - रसास्वादी 'स्यात्' भवति, आत्मानं - दभोगी भवति, इत्यनेन आत्मानंदरसरसिकः शुभाशुभविपाकोदयेन रागद्वेषवान् न भवति, सर्वान् प्रति समवृत्ति मुनिः इत्येवं कर्मविपाके समानत्वचिंतनाष्टकं समाप्तं ॥ ८ ॥
इति कर्मविपाकध्यानाष्टकम् व्याख्यातं ॥ २१ ॥
अथ भवोद्वेगाष्टकम् ॥ २२ ॥
कर्मविपाकोद्विग्नभावात् संसारात् उद्विजति, अतो भवोद्वेगाष्टकं लिख्यते, तत्र नामभवः रुद्रादिः, अथवा - तन्नाम सर्वोल्लापरूपं, स्थापनाभवः लोकाकाशः तदाकारो वा, द्रव्यभवः भव - भ्रमणे हेतुरूपधनस्वजनादिः, भावभवः चतुर्गतिरूपः जन्ममरणादिलक्षणः, नयस्वरूपं च द्रव्यनिक्षेपे यावत् नयचतुष्टयं, भावनिक्षेपे शब्दादिनयत्रयं ज्ञेयं । अत्र च भवमग्नानां जीवानां न धर्मेच्छा, इंद्रियसुखास्वादलीना मत्ता इव निर्विवेका भ्रमंति, दुःखोद्विग्ना इतस्ततः दुःखापनोदार्थ, अनेकोपायचिंतनव्याकुला भ्रमति शूकरा इव इति महामोवभवांभोवो किंमन्यत् सर्वसि - द्धिकरं श्रीमद्वीतरागवंदनादिकं कुर्वति, इंद्रियसुखार्थं च तप उपवासनादिकष्टानुष्ठानमा जन्मकृतं हारयंति निदानदोषेण, गणयंति
१६४
For Private And Personal Use Only