________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३५१
जइ उवसंतकसाओ, लहई अनंतं पुणोवि पडिवायं । न हु मे वीससियचं, थोवेवि कसायसेसंमि ॥ २ ॥ अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च । न में विससिअहं, थोवंपि तं बहू होइ ॥ ३ ॥ दात्तं देइ रिणं, अइरा मरणं वणो विसप्पंतो । सबसदाहमग्गी, दिति कसाया भवमणंता ॥ ४ ॥ इति कर्मोदयेन आत्मा दीनो भवति ॥ ५ ॥ अर्वाक् सर्वापि सामग्री, श्रान्तैव परितिष्ठति । विपाकः कर्मणः कार्यपर्यन्तमनुधावति ॥ ६ ॥
व्या० - अर्वाक् सर्वेति-- सर्वापि सामग्री अर्वाक् श्रांता एव परितिष्ठति, नहि कार्यकरणसमर्था, कर्मणः विपाकः 'उदयकार्यपर्यंतं' चरमकारणं 'अनुधावति' अनुप्रवर्तते, अतः बाह्यसामग्री उपकरणरूपा हि कर्मोदयश्रिता, तेन कर्मोदयो बलवत्तरः, अतः कर्मक्षयाय यतितव्यमिति ॥ ६ ॥
असावचरमावर्ते, धर्म हरति पश्यतः । चरमावर्त्तिसाधोस्तु, च्छलमन्विष्य हृष्यति ॥ ७ ॥
व्या० - असाविति "असौ” कर्मविपाकः "पश्यतः” पश्यत एव 'अचरमावर्त्ते' चरमपुद्गलपरावर्त्तादर्वाक् धर्म 'हरति ' चोरयति, तु पुनः 'चरमावर्त्ति' चरमपुद्गलपरावर्त्तान्तरवर्त्तमान मार्गांनुसार, यस्य साधोः निर्ग्रथस्य छलं अन्विष्य गवेषयित्वा 'हृष्यति' हर्ष प्राप्नोति इत्यनेन मार्गानुसारिनिर्ग्रथस्य क्षायोपशमिकगुणत्वात् प्रमादादिदोषात्, शंकाद्यतिचारावसरे हृष्यति, नाम वर्त्तते इत्युपचारः, अतः कर्मविपाके रक्तदिष्टता न करणीया ॥ ७ ॥
१६३
For Private And Personal Use Only