________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३४९
Annanonmmmmma
rana
-रहितः अपि भूपो भवति, किंभूतो राजा ?-'छत्रेण' आतपत्रेण, 'छन्नं' छादितं आक्रांतं दिगंतरं येन स इति चक्री अखंडाज्ञावान् भवति, विपाकपाकेन, तत्र नाश्चर्य दुर्लभं हि सम्यग्दर्शनज्ञानचारित्रं शुद्धात्मधर्मम् ॥ ३ ॥ विषमा कर्मणः सृष्टिदृष्टा करभपृष्ठवत् । जात्यादिभूतिवैषम्यात्का रतिस्तत्र योगिनः ॥४॥ ___ व्या०-विषमा कर्मण इति कर्मणः-"सृष्टिः” रचना करभपृष्ठवत् विषमा दृष्टा, कस्मात् ?-जात्यादिभूतिवैषम्यात् जातिः कुलं-उच्चनीचादिसंस्थानवर्णस्वरसंपदादिभेदात् तस्य महद् वैषम्यं तस्मात् । उक्तं च प्रशमरतौ
“जातिकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् । दृष्ट्वा कथमिह विदुषां, भवसंसारे रतिर्भवति ? ॥ १॥"
इति । 'तत्र' शुभोदये ऐश्वर्यादिकाले अनेकाशुद्धाध्यवसाये परसंयोगोत्पत्तिरूपे, 'योगिनः' रत्नत्रयीपरिणतस्य का रतिः ? न कापि । उक्तं च
सुहजोगो रईहेऊ, असुहजोगो अरईहेउत्ति । रागो वढ्ढई तेणं, अवरो दोसं विवढेई ॥ १ ॥ सिवमग्गविग्धभूया, कम्मविवागा चरित्तबाहकरा । धीराणं समया तहि, चायपरिणामओ हवई ॥२॥४॥
कर्मस्वरूपस्य मोक्षमार्गध्वंसित्वं दर्शयतिआरूढाः प्रशमश्रेणिं, श्रुतकेवलिनोऽपि च । भ्राम्यन्तेऽनन्तसंसारमहो दुष्टेन कर्मणा ॥ ५॥ व्या०-आरूढा इति केचित् मुनयो निश्चयरत्नत्रयीपरि
१६१
For Private And Personal Use Only