________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाकचिन्तनाष्टकम्
दुःखं प्राप्य न दीनः स्यात्सुखं प्राप्य च विस्मितः। मुनिः कर्मविपाकस्य, जानन्परवशं जगत् ॥१॥
व्या०-दुःखं प्राप्य न दीनः स्यादिति-"मुनिः” तत्त्वरसिकः “दुःखं” असातादि, प्राप्य दीनः न स्यात् , कृतभोगे का दीनता ?, करणकाले अविचारेण करणेन तद्विपाक ईश, एवं च पुनः "सुखं" सुतादिराज्येश्वरराज्यादि प्राप्य विस्मितः न स्यात्, को विस्मयः ?, स्वगुणावरणभूते विपाकमिष्टे कर्मणि, "जगत्” लोकं “कर्मविपाकस्य" शुभाशुभोदयस्य “पखशं" पराधीनं जानन् , सर्व जगत् कर्माधीनं तत्त्वज्ञानी एवं कर्मविपाकमवगणय्य तत्त्वसाधने यत्नवान् भवति ॥ १ ॥ येषां भ्रूभङ्गमात्रेण, भज्यन्ते पर्वता अपि । तैरहो कर्मवैषम्ये, भूपैर्भिक्षापि नाप्यते ॥२॥ ___ व्या०-येषां भ्रूभंगेति-'येषां' पुरुषाणां 'भ्रूभंगमात्रेण, भूविक्षेपेण, 'पर्वता' गिरिवरा अपि भज्यंते, तै पैः कर्मणां वैषम्यं कर्मजनिता विषमता तस्मिन् कर्मोदये दुःखावस्थायां, मिक्षापि — न आप्यते । न प्राप्यते, इति शुभाशुभविपाकवैचिश्यम् ॥ २ ॥ जातिचातुर्यहीनोऽपि, कर्मण्यभ्युदयावहे । क्षणाद्रकोऽपि राजा स्यात्, छत्रच्छन्नदिगन्तरः॥३॥
व्या०-जातिचातुर्येति-कश्चित् रंकोऽपि 'क्षणात्' क्षणमात्रेण, 'अयुदयावहे' शुभोदर्के कर्मणि राजा 'स्यात् भवेत् , कथंभूतः रंकः ?-जातिमातृका चातुर्य-दक्षत्वं ताभ्यां हीनः
For Private And Personal Use Only