________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३४७
विषकंटकादय इति दृष्ट एव सुखदुःखयोर्हेतुरस्ति, किमदृष्टस्य कर्मणस्त तुकल्पनेन ?, तदयुत्तां, व्यभिचारात् । इह यस्तुल्यसाधनयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरनिष्टार्थ-साधनसंप्रयुक्तयोश्च बहूनां वा फले सुखदुःस्वानुभवलक्षणविशेषस्तारतम्यरूपो दृश्यते, नासौ अदृष्टहेतुमंतरेणोपपद्यते, अनुमानांतरं श्रीविशेषावश्यके।
किरियाफलभावाओ, दाणाइणं फलं किसीएच । तंच दाणाई फलं, मणप्पसायाइ जई बुझी ॥१॥ किरियासामन्नाओ, जं फलमस्सावि तं मयं कम्मं । तस्स परिणामस्वं, सुखदुक्खफलं जओ भुज्जो ॥२॥
इत्यादि अग्निभूतिवादस्थले ज्ञेयं । तत्र नामस्थापना सुगमा, द्रव्यकर्म कर्मवर्गणागतपुद्गला बध्यमाना बद्धाः सत्तास्थाः, अथवा त तवोऽपि, भावतः कर्म ज्ञानावरणादिविपाकप्राप्ता गुणरोधादिस्वकार्यरूपाः, नैगमतः मिथ्यात्वादिबंधहेतुजनकपापंडिपरिचयप्रशंसादयः, संग्रहतः तद्योग्यताविशिष्टौ जीवपुद्गलौ, व्यवहारतो गृह्यमानवगणासमूहः, प्राणातिपातादयश्च, ऋजुसूत्रतः बंधहेतुपरिणता; सत्तास्थाः कर्मदलिका वा, शब्दतः चलोदीरणादिपूर्वकाः विपाकगतदलिकाः; स भिरूढतः ज्ञानाद्यनंतगुणानां मध्ये यद्गुणरोधः तत्तस्यावरणं, एवंभूततः स्वकर्तृता ग्राहकता वेत्तृता व्यापकता कर्मकार्यकरणप्रवृत्ता इति, सिद्धसेनास्तु-“कर्मकर्तृता शब्दनये, वेदकता व्यापकता सममिरूढनये, गुणावरणत्वं एवंभूतनये" इत्यादि भावना कार्या, तत्र विपाकप्राप्ते कर्मणि शुभाशुभोदये माध्यस्थ्यं करणीयं तदर्थमुपदेशः ।
For Private And Personal Use Only