________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६
सर्वसमृद्धयाष्टकम्.
वस्य यथार्थमार्गोपेतस्य न दवीयसी, आसन्ना एव इति, एवं सर्वमपि औपाधिकं अपहाय स्वीयरत्नत्रये साधना विधेया, येन सर्वा ऋद्धय निष्पद्यते ॥ ८ ॥
इति व्याख्यातं सर्वसमृद्धयष्टकं ॥ २० ॥
अथ कर्मविपाकचिंतनाष्टकम् ॥ २१ ॥
,
अथावसरायातं निर्ग्रथत्वसाधनभावनार्थं समतानिष्पत्तिहेतुमूतं कर्मविपाकचिंतनाष्टकं कथ्यते, तत्र यदुत क्रियते मिथ्यात्वादिहेतु समन्वितेन जीवेनेति कर्म- ज्ञानावरणादिकं, अत्र कश्चित् कर्माभावं मन्यमानः प्राह - नास्ति कर्म, प्रत्यक्षानुमानादिप्रमाणागोचरत्वात्, प्रत्यक्षं कर्म, अतींद्रियत्वात् नाप्यनुमानसाध्यं अनुमानस्य प्रत्यक्षपूर्वकत्वात्, धूमादिलिंगोपेतमहानसादो दृष्टे चाहार्ये च तावदनुमानसंभवः, न च तादृशं लिंगं कर्मानुमानजनकं, तस्मात् नाप्यनुमानगम्यं, उपमायाः प्रत्यक्षस्वभावात्, आगमस्य हि नानावाकयात् इति न कर्म, इत्याद्यनेकयुक्तिनिवहं वदंतमाद- प्रत्यक्षं कर्म अस्ति, केषां ? - सर्वज्ञानां, अन्येवामपि कार्यानुमानेन प्रत्यक्षं अस्ति सुखदुःखानुभवस्य हेतु:, कार्यत्वादंकुरस्येवेति । अथ यदि भवतः प्रत्यक्षं कार्य तर्हि कर्म ममापि प्रत्यक्षं कस्मान्न भवति ? न हि यदेकस्य प्रत्यक्षं तेनापरस्यापि प्रत्यक्षेण भवितव्यं, न हि सिंहसरभादयः सर्वस्य लोकस्य प्रत्यक्षाः, तथापि दक्षैः प्रत्यक्षाः मन्यते लोके, एवं सर्वज्ञप्रत्यक्षीकृतकर्म ज्ञानावरणीयं पुनः प्रतिप्राणिप्रसिद्धयोः सुखदुःखयोर्हेतुरस्ति, कार्यत्वादंकुरस्येव वीजमिति, यश्चेह सुखदुःखयोर्हेतुः तत्कर्मैवेत्यस्ति, तदिति स्यात् मतिः - स्त्रचंदनांगना
१५८
For Private And Personal Use Only