________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
वारकस्य, हरेस्तु-नरकाभिधानशत्रुविदारकस्य, सुखसागरमग्नस्य, कृष्णार्थे इंद्रियजसुखलीलासमुद्र मन्नत्वं, योगिनः सुखं सम्यग्ज्ञानदर्शनचारित्रसमाधिनिष्पन्नं तस्य सागरः तत्र मनस्य, आध्यात्मिकसुखपरिणामभाजनस्य साधोः केन सह न्यूनता ?, न केनापि इति ॥ ६॥ या सृष्टिब्रह्मणो बाह्या, बाह्यापेक्षावलम्बिनी। मुनेः परानपेक्षान्तर्गुणसृष्टिस्ततोऽधिका ॥७॥
व्या०-या सृष्टिब्रह्मण इति-या “सृष्टिः” रचना "ब्रह्मणो" विधातुः सा "बाह्या” लोकोक्तिरूपा असत्या, पुनः बाह्या वा अपेक्षा तस्या अवलंबिका, "मुनेः” स्वरूपसाधनसिद्धिमग्नस्य "अंतः" मध्ये आत्मनि व्यापकरूपा गुणानां सृष्टिः-रचना गुणप्रागभावप्रवृत्तिपरिणतिरूपा, बाह्यभावतः अधिका, “कथंभूता" गुणसृष्टिः ? परानपेक्षा, परेषां अनपेक्षा अपेक्षारहिता पराश्रयालंबनविमुक्ता स्वरूपावलंबनपरा गुणरचना सा सर्वतोऽधिका इति ॥ ७॥ रत्नस्त्रिभिः पवित्रा या, स्त्रोतोभिरिव जाह्नवी। सिद्धयोगस्य साऽप्यर्हत्पदवी न दवीयसी ॥ ८॥ ___ व्या०-रत्नस्त्रिमिरिति-सिद्धयोगस्याष्टांगयोगसाधनसिद्धस्य साधोः, साऽपि अर्हत्पदवी ज्ञानाद्यनंतचतुष्टयात्मकाष्टप्रातिहा
र्यान्विता जगद्धर्मोपकारिणी न दवीयसी-न दूरा इत्यर्थः । किंभूता पदवी ?-त्रिभिः स्नैः सम्यग्ज्ञानदर्शनचारित्रैः पवित्रा, का इव ? स्रोतोमिः-प्रवाहैः जाह्नवी-गंगा इव, इति त्रैलोक्याद्भुतपरमार्थदायकत्वाद्यतिशयोपेता अर्हत्पदवी साधकपुरु
For Private And Personal Use Only