________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वसमृश्यष्टकम्.
भूमयः केन घृता, उपमा तु महत्त्वज्ञापिका सामर्थ्यज्ञापिका च । पुनः कथंभूतो मुनिः ? नवं यद् ब्रह्मज्ञानं तदेव सुधा तस्याः कुंडः, “निष्ठा' स्थितिः तस्या अधिष्ठायकः, इत्यनेन तत्त्वज्ञानामृतकुंडस्थैर्यरक्षक इति ॥ ४ ॥ मुनिरध्यात्मकैलाशे, विवेकवृषभस्थितः। शोभते विरतिज्ञप्ति-गङ्गागौरीयुतः शिवः ॥५॥ ___व्या०-मुनिरध्यात्मेति, अत्र श्लोकत्रये महादेवकृष्णब्रह्मोपमानं औपचारिक, नहि ते कैलाशगंगासृष्टिकरणोद्यताः, किंतु लोकोक्तिरेषा, तेन श्लेषालंकारार्थं हि वाक्यपद्धतिः, न सत्या । "मुनि' तत्त्वज्ञानी "अध्यात्मं” "आत्मस्वरूपैकत्वं' तद्रपे कैलाशे आस्थाने, “विवेकः” स्वपरविवेचनं स एव “वृषभः” बलीवर्दः, तत्र स्थितः, "विरतिः" चारित्रकलाम्रवनिवृत्तिः, ज्ञप्तिः ज्ञानकला शुद्धोपयोगता, एव गंगागौरी, ताभ्यां युतः 'शिवः' निरुपद्रवः, उपचारात् शिवः रुद्रो भासते, रुद्रस्य गंगायुतत्वं विद्याधरत्वे पार्वतीमनोरंजनाय विक्रियाकाले वाच्यम् ॥ ५॥ ज्ञानदर्शनचन्द्रार्क-नेत्रस्य नरकच्छिदः। सुखसागरमग्नस्य, किं न्यूनं योगिनो हरेः? ॥६॥
व्या०-ज्ञानदर्शनेति-“योगिन" रत्नत्रयपरिणतस्य "हरेः” कृष्णात् किं न्यूनं ?, न किमपि, किंमूतस्य योगिनः ? “ज्ञानदर्शनचंद्रार्कनेत्रस्य" ज्ञानं सामान्यविशेषात्मके वस्तुनि विशेषावबोधः, सामान्यविशेषात्मके वस्तुनि सामान्यावबोधः दर्शनं, ते एव चंद्राओं नेत्रे यस्य स तस्य, हरेः चंद्राकनेत्रत्वं तु लोकोक्तिरेव, पुनः किंभूतस्य योगिनः ?-'नरकच्छिदः' नरकगतिनि
१५६
For Private And Personal Use Only