________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३४३
वबोधकरं महाविमानं, इत्यादिपरिवृतः मुनिः वज्रीव भासते । उक्तं च योगशास्त्रे--
पुंसामयत्नलभ्यं ज्ञानवताभव्ययं पदं भूतम् । यद्यात्मन्यात्मज्ञानमात्रमेतत्समाहितं ॥ १ ॥ श्रयते सुवर्णभावं, सिद्धिरसस्पर्शतो यथा लोहम् ।
आत्मध्यानादात्मा, परमात्मत्वं तथाऽऽनोति ॥ २ ॥ विस्तारितक्रियाज्ञान-चर्मच्छत्रो निवारयन् । मोहम्लेच्छमहावृष्टिं, चक्रवर्ती न किं मुनिः ॥३॥ ___व्या०-विस्तारितेति-"मुनिः” समस्तास्रवविरतः द्रव्यभावसंवररतः किं चक्रवर्ती न ? अपितु अस्त्येव, किं भूतः ? विस्तारितभियाज्ञानचर्मच्छत्रः, क्रिया च ज्ञानं च क्रियाज्ञाने चर्म च छत्रं च चर्मच्छत्रे क्रियाज्ञाने एव चर्मच्छत्रे क्रियाज्ञान विस्तारिते क्रियाज्ञानचर्मच्छत्रे येन सः, विस्तारित इन सत्रियोवतः सम्यग्ज्ञानोपयुक्तः । मोह एव म्लेच्छः तस्य महती वृष्टिः तां निवारयन् मोहम्लेच्छा उत्तरखंडाद्यास्तत्प्रयुक्तमिथ्यात्वदैत्यकृता कुवासनावृष्टिः स्वशुद्धसम्यग्दर्शननिवारितकुवासनाचयः मुनिः भावचक्रवर्तीव भासते ॥३॥ नवब्रह्मसुधाकुण्ड-निष्ठाधिष्ठायको मुनिः । नागलोकेशवद्भाति, क्षमां रक्षन् प्रयत्नतः ॥ ४ ॥
व्या-नवब्रह्मेति-"मुनिः" भेदज्ञानगृहीतात्मध्यानः, “नागलोकेशवत्" उरगपतिवत् भाति, किं कुर्वन् ? "क्षमा” पृथ्वी क्रोधापहरणपरिणतिः वचनर्मात्मिका क्षमा तां रक्षन् धारयन् इति । उरगपतेः क्षमाधारकत्वं लोकोपचारतः, नहि रत्रप्रभाद्या
For Private And Personal Use Only