SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वसमध्यष्टकम् : AnnanoranranArranneelon. व्या०-बाह्यदृष्टिप्रचारेषु इति-"महात्मनः" स्वरूपपररूपभेदज्ञानपूर्वकशुद्धात्मानुभवलीनस्य सर्वसमृद्रयः स्फुटाः प्रकटाः “ अंतरेव " आत्मांतः एव स्वरूपमध्ये एव भासते, यतः स्वरूपानंदमयोऽहं, निर्मलाखंडसर्वप्रकाशकज्ञानवानह, इंद्राद्यर्द्धय औपचारिकाः अक्षयानंतपर्यायसंपत्पात्रोऽहं, इति स्वसत्ताज्ञानोपयुक्तस्य स्वात्मनि भासते, कीदृशेष सत्सु ? बाह्यदृष्टिप्रचारेषु मुद्रितेषु सत्सु “बाह्या दृष्टिः' विषयसंचारात्मिका तस्याः “प्रचारा” विस्ताराः “मुद्रितेषु" रोधितेषु न हि इंद्रियप्रचारचलोपयोगैः कर्ममलपटलावगुंठिताप्यात्मसंपद् ज्ञायते इति इत्यनेन बहिर्गमनमुपयोगस्य न कर्त्तव्यमिति ॥ १ ॥ समाधिनन्दनं धैर्य, दम्भोलिः समता शची। ज्ञानं महाविमानं च, वासवश्रीरियं मुनेः ॥ २॥ व्या०-समाधिरिति-"मुनेः" स्वरूपज्ञानानुभवलीनस्य साधोः "इयं" उच्यमाना “वासवस्य" इंद्रस्य "श्रीः" लक्ष्मीः शोभा वर्तते । अत्र मुनेः पवित्ररत्नत्रयीपात्ररूपेंद्रस्य “समाभिः" च्यानध्याताध्ये यैकत्वेन निर्विकल्पानंदरूपः समाधिः स एव नंदनं वनं, हरेः नंदनवनक्रीडा सुखाय उक्ता, साधोः समाधिक्रीडा सुखाय, तत्राप्यौपाधिकात्मीयकृतो महान् भेदः, स च अध्यात्मभावनाज्ञेयः, अस्य धैर्य वीर्याकंपता औदयिकभावाक्षुब्धतालक्षणं "वज्र" दंभोलिः पुनः “समता" इष्टानिष्टेषु संयोगेषु अरक्तद्विष्टता सर्वेऽपि पुद्गलाः कर्करचिंतामण्यादिपरिणताः जीवाश्च भक्ताभक्ततया परिणताः ते सर्वे न मम भिन्नाः एतेषु का रागद्वेषपरिणतिरित्यवलोकनेन समपरिणतिः समता सा शची स्वधर्मपत्नी “ज्ञानं" स्वपरभावयथार्थावबोधरूपं “विमान” सर्वा For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy