________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजही दीका. --- - r n o...commmmmmmmmmmmmmmmmmmmmm......
अलक्ष्यं लक्ष्यसम्बन्धात्स्थूलात्सूक्ष्म विचिन्तयेत् ।
सालम्बाच्च निरालम्ब, विशुझं तत्त्वमञ्जसा ॥५॥ इत्यात्मस्वरूपध्यानी सर्व परमनात्मत्वेन जानाति स आत्मवित् प्रशंसां न करोति तदेवाहगुणैर्यदि न पूर्णोऽसि, कृतमात्मप्रशंसया । गुणैवासि पूर्णश्चेत्कृतमात्मप्रशंसया ॥१॥
व्या-गुणैरिति--" यदि गुणैः " केवलज्ञानादिमिः पूर्णः न असि तर्हि 'आत्मप्रशंसया' व्यर्थात्मस्तुत्या ‘कृतं ' नाम श्रितं निर्गुणात्मनः का प्रशंसा ? पौद्गलिकोपाधिजा गुणा इति मूढा वदंति तैर्न प्रशंसा 'चेद् यदि सम्यग्दर्शनज्ञानचारित्रतपोरूपैः साधनगुणैः क्षायिकज्ञानदर्शनचारित्ररूपैः सिद्धगुणैः पूर्णः तर्हि वाचकात्मकप्रशंसया कृतं श्रितमित्यर्थः प्रारभाविता गुणा स्वतएव प्रकटीभवंति नेक्षुयष्टिः पलालावृता चिरकालं तिष्ठति इति का स्वमुखात्स्वगुणप्रशंसना ॥१॥
पुनर्व्यवहारेण दर्शयतिश्रेयोद्रुमस्य मूलानि, स्वोत्कर्षांभः प्रवाहतः। पुण्यानि प्रकटीकुर्वन् , फलं किं समवाप्स्यसि ? ॥३॥ ___ व्या०-श्रेयोद्रुम इति-भो भद्रः ! 'पुण्यानि ' पवित्राणि " श्रेयोद्रमस्य मूलानि " कल्याणवृक्षस्य मूलानि “ स्वोत्कभिः प्रवाहतः" स्वस्य उत्कर्षः औत्सुक्यं स एव अंभ: प्रवाहः तस्मात् “ प्रकटीकुर्वन् ” व्यक्तं कुर्वन् किं फलं सम प्स्यसि ? अपि तु नैव यस्य द्रमस्य मूलं खातं तेन लोतिर्न भवति ॥२॥
For Private And Personal Use Only