________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
अनात्मशंसाष्टकम्
ज्ञानं, भावतः पुनः कुमावचनिकं अशुलं मोक्षाभिलाषपूर्वकं यत् तामिलस्य परित्यागतुल्यं, शुझं तु सम्यग्दर्शनपूर्वकतत्त्वविवेचनोपयुक्तं सम्याज्ञानेन आत्मनः स्वद्रव्यस्वक्षेत्रस्वकालस्वभावात् जिन्नं उपाविश तत्सर्वमपि पररूपं न मदीयं इति वास्तव्यं भेदज्ञानं तदनात्मशंसनं तत्करणे तत्त्वज्ञानं भवति, तदपि अनिष्टेषु अजीवेषु जीवाश्रितकर्मपुद्गलेषु तद्विपाकेषु तन्निमित्तोत्पन्नाशुविभावपरिणामेषु अनात्मत्वं यावद् व्यवहारः तावदसन्निमित्तपरायत्तचेतनावीर्यपरिणत्या भावयोगचेतनाविकल्पेषु परत्वं ऋजुसूत्रः द्रव्यौदयिकसदाचारसत्यभाषासत्यमनोयोगादिषु साधनसंवराध्यवसायेषु सन्निमित्तावलंबिस्वात्मपरिणामेषु परत्वं शब्दः रूपातीतशुक्लध्यानशैलीकरणादिपरत्वं, समभिरूढः स्वात्मपरिणामिकभावानंतज्ञानदर्शनात् अन्यत्सर्वमपि परं इति, एवंमूतः एवं अनात्मत्वं सर्वत्र अध्या सम्यग्दर्शनिनां भिन्नीकरणेन मुनीनां भिन्नीभावेन जिनानां सर्वथा अभावेन सिमानां विरतिश्रध्या स्थाप्यं तत्करणीयं नहि परभावकर्तृत्वभोक्तत्वाश्रयत्वसंयोगित्वं चेतनस्य कार्य इति साधकावकाशः । आत्मैव सामायिकं सामायिकार्थ इत्याधर्हद्वाक्यानुसारिभवितव्यं । उक्तं च योगशास्त्रे
अमूर्तस्य चिदानन्द-रूपस्य परमात्मनः । निरञ्जनस्य सिमस्य, ध्यानं स्याद्रपवर्जितम् ॥ १ ॥ इत्यजस्रं स्मरन् योगी, तत्स्वरूपावलम्बनः । तन्मयत्वमवाप्नोति, ग्राह्यग्राहकवर्जितम् ॥ २ ॥ अनन्यशरणीभूय, स तस्मिन् लीयते तथा । ध्यातृध्यानोभयाभावो, ध्येयेनैकं यथा व्रजेत् ॥३॥ सोऽयं समरसीभावस्तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन, लीयते परमात्मनि ॥ ४ ॥
For Private And Personal Use Only