________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२
माध्यस्थ्याष्टकम्
मध्यस्थया दृशा सर्वे-वपुनर्बन्धकादिषु । चारिसजीविनीचार-न्यायादाशास्महे हितम् ॥८॥ ___ व्या०-मध्यस्थया इति-वयं मध्यस्थया दृशा सर्वेषु मैत्री प्रमोदकरुणादिषु हितं कल्याणं आशास्महे इच्छामः, सर्वत्र रागद्वेषपरित्यागानुकूलभावनया हितं सिद्धयति, कस्मात् ? चारिसजीवनीचारन्यायात्। तत्रोदाहरणं यथा-कश्चित्पुरुषः अजाननपि पशुं संचारयन् पशुत्वपरित्यागचक्षु?तकहेतुः जातः, स च चारिसंजीविनीचारणरूपो दृष्टांतः तन्न्यायात्। तथा चरणादिषु मंदप्रयनोऽपि अध्यात्मानुगसमभावपरिणतः आत्मानमनादिपशुत्वभावगतमपहाय स्वरूपोपलब्धिरूपं दक्षत्वमेदज्ञानरूपं चाक्षुषत्वं करोति । अत एव सर्व साध्यसापेक्षस्य साधनं हितं साधनस्य बालक्रीडास्पं । उक्तं च वीतरागस्तोत्रे
तथापि श्रद्धामुग्धोऽहं, नोपालभ्यः स्खलनपि । विश्रृंखलापि वागवृत्तिः, श्रद्दधानस्य शोभते ॥ १ ॥ . पुनः केषु ? अपुनबंधकादिषु, अपुनर्बाधकस्वरूपं श्रीह
भद्रसूरिवचनात् ज्ञेयं, आदिशब्दात् मार्गामिमुखमार्गपतिताविरतसम्यग्दृष्टिदेशविरतसर्वविरतादिषु सर्वत्र परभावरागद्वेषविनिर्मूतात्मस्वभावानुकूलता एव साधनं । उक्तं च योगशास्त्रे
आत्मैव दर्शनज्ञानचारित्राण्यथवा यतेः। यत्तदात्मक एवैष, शरीरमधितिष्ठति ॥ २ ॥ आत्मानमात्मना वेत्ति, मोहत्यागाद् यदात्मनः । तदेव तस्य चारित्रं, तज् ज्ञानं तच्च दर्शनम् ॥ २ ॥ i, आत्माज्ञानभवं दुःख-मात्मज्ञानेन हन्यते ।
तपसाप्यात्मविज्ञान-हीनैइछेत्तं न शक्यते ॥ ३ ॥
For Private And Personal Use Only