________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३२३
सोऽयं समरसीभाव-स्तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन, लीयते परमात्मनि ॥ ४॥८॥ इति व्याख्यातं मध्यस्थाष्टकम् ॥ १६ ॥
अथ निर्भयाष्टकम् ॥ १७॥ माध्यस्थ्ये स्थिरत्वं निर्भयस्य भवति, भयमोहोदयात् पार णामचापल्यं भवति, अतो भयपरिहारः कार्यः, आत्मा हि शुद्धचिद्रूपाविनश्वरः तेन निर्भय एव, नामस्थापनानिर्भयौ सुगमौ, द्रव्यनिर्भयः सप्तभयरहितः, भावनिर्भयः कर्मबंधहेतुविभावपरिगतिरहितः, बंधहेतुपरिणामः आत्मसत्तारोधकामिनवकर्मबंधक त्वान्महाभयं तत् च संवरपरिणामपरिणतानां न भवति । नैगमेन सर्वद्रव्याणां, संग्रहेण वस्तुसत्ताया, वस्तुवृत्त्या विनश्वरत्वात्, व्यवहारेण कर्मोदयाव्यापकस्य धीरस्य, ऋजुसूत्रेण निग्रंथस्य, शब्दनयेन ध्यानस्थस्य, सममिरूढनयेन केवलिनः, एवंमूतनयेन सिद्धस्य, निर्भयत्वं अविनश्वरसर्वगुणप्राग्भावात् । अत्र च यथार्थात्मस्वरूपविज्ञातुरोदयिकभावनिर्ममस्य साधने निर्भयो भवति, अतो निर्भयाष्टकं व्याख्यायवेयस्य नास्ति परापेक्षा, स्वभावाद्वैतगामिनः । तस्य किं नु भयभ्रान्ति-क्लान्तिसन्तानतानवम् ॥१॥
व्या०-यस्य नास्तीति-यस्य 'परापेक्षा' पराश्रया, पराशा वा, नास्ति तस्य ‘स्वभावाद्वैतगामिनः स्वभावस्य यत् अद्वैतं एकत्वं स्वभावाद्वैतं तत्र गमनशीलस्य 'भयः' त्रासः 'मांतिः' अमः 'क्लांतिः' खेदः तस्य ‘तानवं ' अविस्तारो नु भवति ? काक्वर्थः; इत्यनेन परवस्तुसंरक्षणे पराशादिना भयं भवति, यः परभावनिःस्पृहः तस्य परभावाभावेन खेदः कुत एवेति ॥२॥
For Private And Personal Use Only