________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज्ञानगंजरी टीका.
३२१
चरणतः शुक्कुध्यानं यावत् सम्यग्दृष्टि-अपुनर्बंधकादयः, जिनकल्पाः स्थविरकल्पादयः, मध्यस्थभाववर्त्तिनां एकं अक्षयं परं ब्रह्म प्राप्नुवंति । इत्यनेन सर्वे साधनोपाया एकं शुद्धं आत्मस्वरूपं समतरंति । सर्वेषां मोक्षसाधकानां साध्यैकत्वात् । कमिव ? समुद्र सरितां इव यथा नद्यः समुद्रं गच्छंति एवं तवैकत्वपरिणामानां सर्व साधनं शुद्धात्मभावे अवतरति । अतो रागद्वेषाभावो हितम् ॥ ६ ॥
स्वागमं रागमात्रेण, द्वेषमात्रात् परागमम् । न श्रयामस्त्यजामो वा, किन्तु मध्यस्थया दृशा ॥७॥
Acharya Shri Kailassagarsuri Gyanmandir
च्या० - स्वागमं इति स्वागमं गणधरोक्तं आगमं, वयं न रागमात्रेण श्रयामः यच अस्मत्परंपरानुगतैः इदं एवामिमतं, अस्माकं कल्पमिदं, इति रागातुरत्वेन न जिनागमे रागः; वा अथवा परागमं कापिलादिशास्त्रं, न केवलद्वेषमात्रेण परकीयत्वात न द्वेषः तेन न त्यजामः; किंतु परीक्षया यथार्थवस्तुस्वरूपनिरूपणेन सम्यग्ज्ञानहेतुत्वात्, नित्याऽनित्याद्यनंत स्वभावकथनेऽ प्यविरोधित्वात् मध्यस्थया दृशा जिनागमं श्रयामः । विपर्यासोपेतवस्तुस्वरूपपरीक्षणाऽक्षमत्वेन त्यजामः, न द्वेषमात्रेण त्यागयोग्यत्वात् त्यजामः । उक्तं च---
पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु ।
युक्तिमद् वचनं यस्य, तस्य कार्यः परिग्रहः ॥ १ ॥
इति ॥ ७ ॥
41
न श्रद्धयैव त्वयि पक्षपातो, न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु, त्वामेव वीरमभुमाश्रिताः स्मः ॥ २ ॥
33
For Private And Personal Use Only