________________
Shri Mahavir Jain Aradhana Kendra
३२०
www.kobatirth.org
माध्यस्थ्याष्टकम्
Acharya Shri Kailassagarsuri Gyanmandir
वंदिज्जमाणा न समुक्कसंति, हेलिज्जमाणा न समुज्जलंति । दंतेण चित्ते न चलति वीरा, मुनी सया इ अरागदोसा ॥ १ ॥ मनः स्याद् व्यापृतं यावत्, परदोषगुणग्रहे । कार्यं व्ययं वरं तावन्मध्यस्थेनाऽऽत्मभावने ॥ ५ ॥
व्या०-मनः स्याद् व्यापृतं इति - परदोषगुणग्रहणे यावत् मनः व्यापृतं व्यापारवत् स्यात्, तावत् आत्मभावने आत्मस्वरूपचिंतने व्यग्रं तदायत्तं वरं प्रधानं कार्य, केन मध्यस्थेन पुरुषेण समभावास्वादनरसिकेन इत्यनेनात्मस्वरूपस्यामूर्त्तस्यागुरुलघुषड्गुणहानि
वृद्धिपरिणमनोत्पादव्ययत्रौव्यतालक्षणस्वरूपचिंतनगुणप्रवृत्तिः गुणांतरसहकारप्रवृत्तिस्वरूपचिंतनादिकं तत्र चिंतने व्यग्रस्य सांसारिकगुणदोषचितनावकाश एव न भवति, अत एव निर्ग्रथाः चिंतयंति भावनाचक्रं, घोषयंति द्रव्यानुयोगग्रंथं, प्रश्नयंति परस्पस्वभावविभाव परिणाम, विलोकयंति आत्मस्वरूपं साऽऽवरणं निरावरणं, विभजयंति हेतुगणपरिणामं त्यजति अशुद्धनिमितानि, विचारयति निक्षेप, संमीलयंति नयाऽनुयोगं, तन्मयीभवंति ध्यानादिषु यतः अनादिविभावानुगतचेतनावीर्यप्रवर्तनगृहीत परस्वरूपोपादेयतया परदोषगुणावलोकना शुद्धचिंतननिवारणार्थं मनः स्याद्वादानंत पंचास्तिकायस्वरूपावलोकनाजीवहेयजीवोपरिज्ञानं कार्यमिति ॥ ५ ॥
विभिन्ना अपि पन्थानः समुद्रं सरितामिव । मध्यस्थानां परं ब्रह्म प्राप्नुवन्त्येकमक्षयम् ॥६॥
"
व्या० - विभिन्ना अपि इति -- विभिन्ना अनेकभेदभिन्ना अपि पंथानः पंच ध्यानमार्गाः साधनपद्धतयः साधनोपाया अनेके द्रव्या
१३२
For Private And Personal Use Only