________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३१९
एवंभूतेन स्वस्वपर्यायग्राहिणा, इत्याद्यनेकजीवाजीवेषु नयचालिनीतत्त्वार्थवृत्तितो ज्ञातव्या । तत्र ज्ञाने किञ्चिद् भाव्यते-तत्र नैगमः अक्षरानंतभागरूपश्चेतनांश एकेंद्रियावस्थः ज्ञान संग्रहसामान्यसत्तास्थो ज्ञानपरिणामः ज्ञानं व्यवहार अष्टप्रकारमपि ज्ञानं वस्तुपरिच्छेदकत्वात् ऋजुसूत्रः सम्यग्दृष्टेः इह तदभिहततत्त्वश्रद्धायिनः यदिद्रियजमनिंद्रियजं च तत्सर्वं ज्ञानं मिथ्यादृष्टेः सर्वमेव विपर्यासः, शब्दस्तु-श्रुतज्ञानं केवलज्ञाने ज्ञानं, तत्र सांप्रतः श्रुतादिज्ञानचतुष्टयं ज्ञानं, समभिरूढः श्रुतज्ञानकेवलज्ञाने ज्ञानं, एवंभूतः केवलज्ञानं ज्ञानं, इत्येवं स्वपक्षस्थापनपरैर्नयैः स्वाभिमतप्रकाशकैः अनेके वक्तारः प्रतिवदंते विवादास्पदीभवंति । तत्र येषां मनः समशीलं ते मध्यस्था उच्यते इत्येवं माध्यस्थ्यं समाश्रयणीयम् ॥३॥ स्वस्वकतावेशाः, स्वस्वकर्मभुजो नराः। न राग नाऽपि च द्वेषं, मध्यस्थस्तेषु गच्छति ॥४॥
व्या०-स्वस्वकर्म इति-तेषु कर्मोदयेषु मध्यस्थः समचित्तः न रागं च पुनः न द्वेषं गच्छति । कथंभूता नराः ? स्वस्वकर्मकृतावेशाः स्वे स्वे कर्मणि आत्मीयात्मीये कर्मणि कृतः आवेशो यैस्ते स्वकीयकर्मवशा इत्यर्थः । सर्वे स्वस्य कर्मणः भोक्तारः इत्यनेन स्वकर्मकृतकर्मविपाकोदये शुभे च अशुमे च विपाकं प्राप्ते सति समानचेतोवृत्तिः यः सुरेंद्रवृंदवंदितचरणोऽपि तथादीनजनैः लुब्धकधीवरैः विडंब्यमानोऽपि न रागं च न द्वेष च गच्छतिः स मध्यस्थः समचित्तः उच्यते । उक्तं चावश्यकनियुक्तौ--
For Private And Personal Use Only