________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३१८
माध्यस्थ्याष्टकम्.
वस्त्वेवानेकधर्मात्मकाने का कृतिना ज्ञानेन निरूप्यते, एकवस्तुवि - षया ज्ञानविशेषाः ते चोदाहरति । घट इत्युक्ते नैगमः, लोकप्रसिद्धकुंभकारचेष्टानिर्वृत्तः पृथुबुध्न्नादराकारः जलघृतक्षीरादीनां आहरणेन देशांतरसंचरणेन समर्थः पाकजादिक्रियानिष्पन्नः द्रव्यविशेषः कनकोपलजादिसमग्र सामान्यविशेषव्यक्तिभेदग्राहकः संकल्प योग्यतत्सत्ता दिदेशग्राहकविज्ञानविशेषेण वटः । एवं जीवोऽपि लोकप्रसिद्धचेतनायोगव्यापारचेष्टानिर्वृत्तः शरीराकारासंख्येयप्रदेशानेकसंस्थानरूपः आहारविहारक्रियासमर्थः नरनारकामरादिरूपः सन् ज्ञशरीराद्यपर्याप्तादिसमग्रतः पर्यायादिद्रव्यविशेषो जीवः । संग्रह एकस्मिन् घटे बहुषु वा घटेषु नामस्थापनाद्रव्यलक्षणेषु अतीतानागतवर्त्तमानेषु पर्यायेषु सामान्यजीवसत्ताग्राहकज्ञानविशेषः सूक्ष्मनिगोदात् सिद्धत्वपर्यंतेषु तच्छरीरेषु च ज्ञशरीरभव्यशरीररूपेषु च तुल्यजीवज्ञानविशेषसंग्रहाव्यवसायः आधिक्येनावसीयंते परिच्छिद्यंते ततो येन सोऽव्यवसायः । व्यवहारस्तु जला हरणादिव्यवहारयुक्तो घटो घटः, सुखदुःखवेत्तृत्वादिव्यवहारपरो जीवो जीवः । ऋजुत्रस्तु वर्त्तमाननामस्थापनाद्रव्यभावघटानां चेष्टादिपर्यायाणां वाचके घटः, एवं चतुर्निक्षेपमयो जीवः द्रव्यभावप्राणाधारत्व जीवत्ववस्तुतया वर्त्तमानो ग्राह्यः, सांप्रतस्तु घटत्वशब्दवर्तमान सर्वपर्याग्राही जीवत्वादिनामावयवाश न्यवर्त्ती जीव इति, समभिरूदरतु घटे कुटत्वादिपर्यायासंक्रमरूपः यत्पर्यायवृत्तितत्समदितपर्यायाभिधायि जीवान्यतरपर्यायो संक्रमस्व पर्यायवाचको जीवः, एवंभूतस्तु ज्ञानदर्शनसं पूर्ण पर्याय प्रवृत्तिवर्त्तिजीव इत्यभिधायिका । उक्तं च तत्त्वार्यवृत्तौ नैगमेन देशग्राहिणा, पण सामान्यग्राहिणा, व्यवहारेण विशेषग्राहिणा, ऋजुसूत्रेण वर्त्तमा वस्तुग्राहिणा, शब्देन वर्त्तमानभावग्राहिणा, समभिरूढेन प्रतिशब्दं भिन्नार्थग्राहिणा,
१३०
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only