________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
धुना समभिरूढलक्षणं दर्शयन्नाह विद्यमानेषु वर्तमानपर्यायापन्नेषु अर्थेषु घटादिषु असंक्रमः इत्यन्यत्रागमनं शब्दस्य यत्सोऽसंक्रमः यथा घट इत्यस्य शब्दस्य विद्यमानं घट चेष्टात्मकं विरहय्य अन्यत्र कूटाद्यर्थेऽभिधानसामर्थ्यमस्ति अभिधेयत्वात् । यदि चास्य शब्दस्य कूटादिरोंऽभिधेयो भवेदेवं सति यथोक्तसर्वसंकरत्वादयो दोषा उपजायते तन्नित्यतो न शब्दांतराभिधेयोऽर्थोऽन्यस्य शब्दस्याभिधेयो भवति एवमसंक्रमणगवेषणपरोऽध्यवसायः सममिरूढः । एवंभूतस्वरूपमाह व्यंजनं शब्दस्तस्यार्थोऽभिधेयो वाच्यं तयोव्यंजनार्थयोरेव संघटनं करोति, घट इति यदिदं अभिधानं तच्चेष्टाप्रवृत्तस्यैव जलधारणाहरणसमर्थस्य वाचकं चेष्टां च जलाद्यानयनरूपां कुर्वाणो घटो मतः, न पुनः क्रियातो निवृत्तः, इत्थं यथार्थतां प्रतिपद्यमानोऽध्यवसायः एवंभूतोऽभिधीयते । ननु नया इति कः पदार्थः ? " नयंते प्रदश्यते इति नयाः " सामान्यादिरूपेणार्थ प्रकाशयंति स्वार्थप्रापणेन प्रापकाः। कुर्वति तत्तद्विज्ञानं आत्मन इति कारका अपूर्व साधयंति, शोभनामन्योन्यव्यावृत्त्यात्मिकां विज्ञप्ति जनयंति, अतः साधका एव । निवृत्तकोपलंभकादिपर्यायाः तत्त्वार्थतो ज्ञेयाः । अत्र कर्तृकिययोः अभेदोऽस्ति, यतः स एव पदार्थः कर्ता इत्येवं व्यपदिइयते स्वतंत्रत्वात्, तथा स एव च साध्यात्मना वर्तमानक्रिया इत्याख्यायते, अतोऽनयोनत्यिंतको भेदः । अथैते नयाः तंत्रांतरीया मतान्तरीयाः अथ च स्वतंत्राः सप्त वा जिनवचनविभजनशीलाः पक्षग्राहिणः मतिभेदा वा एवं सर्वत्र मिथ्यात्व दपि मतिपत्ति प्राप्नोति तेन पुनः सरिराह-इति अत्रोच्यते नैते तंत्रांतरीया नापि स्वतंत्राः किं तर्हि ? तदाह-विज्ञानगमस्य जीवादेः स्वसवेदस्य वाच्यस्यार्थस्य घटपटादेव्यवसायांतराणि विज्ञानभेदाः
१२९
For Private And Personal Use Only