________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१६
माध्यस्थ्याष्टकम्.
स्वभावं यतः सत्तातो न व्यतिरिच्यते विशेषः व्यवहारलक्षणाभिधित्सयाह - लौकिका विशेषाः तैरेव घटादिभिर्व्यवहरन्ति तेषां उपचारप्राय इति " उपचारो नामान्यत्र सिद्धस्यार्थस्यान्यत्रारोपादयः " । यथा - कुंडिका स्रवति, पंथा गच्छति, उदके कुंडिकास्थे स्रवति सति इत्युच्यते । पुरुषे च गच्छति पंथा गच्छति एवमुपचारबहुल इत्यर्थः । विस्तृतिविस्तीर्णानेकार्थो यो यस्य स बिस्तृतार्थः अध्यवसायविशेषो व्यवहार इति निगद्यते । ऋसूत्रलक्षणं व्याचिख्यासया आह- सतां विद्यमानानां न खलु पुष्पादीनामसतां तेषामपि सतां वर्त्तमानानां अर्थानां अभिधानं शब्दः परिज्ञानं अवबोधी विज्ञानं यावत्संभवति ऋजुसूत्रः, एतदुक्तं भवति - तानेव व्यवहारनयाभिमतान् विशेषानाश्रयन् विद्यमानान् वर्त्तमानान् क्षणवर्त्तिनोऽभ्युपगच्छन् निधानमपि वर्त्तमानमेवाभ्युपैति, नातीतानागते तेन अनभिधीयमानत्वात् कस्यचिदर्थस्य तथा परिज्ञानमपिवर्त्तमानमेवाश्रयति नातीतमागामि वा, तत्स्वभावानवधारणात्, अतो वस्त्वाभिधानं विज्ञानं चात्मीयं वर्त्तमानमेवेतीत्थं अध्यवसाय ऋजुसूत्र इति यथार्थाभिधानं । शब्दनयः यथेति येन कारणेन भावरूपेण नामस्थापना द्रव्यविते नार्थो घटादि यथार्थः तस्याभिधानं शब्दः यथार्थाभिधानं तदाश्रयी योऽध्यवसायः शब्दनयः, तथाभिधीयते वर्तमानमात्मीयं विद्यमानं भाववटमेवाश्रयति नेतरा इति । अर्थे अभिधेये यः प्रत्ययो विज्ञानं स सांप्रतो नयः, एतदुक्तं भवतिनामादिषु प्रतिविशिष्टवर्त्तमानपर्यायानेध्या प्रसिक वाचकः तथा यः शब्दः तस्मात् शब्दात् भावाभिधायिनः तद्वाच्येऽर्थे भावरूपे प्रवृत्तोऽध्यवसायः सांप्रताख्यामासादयति, यतो भाव एव शब्दाभिधेयो भवति, नाशेपाभिलषितः, कार्यकारणादिति । अथा
१२८
For Private And Personal Use Only