________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
३१५
AshoeAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAvive
प्राक् वृक्षेऽस्ति संप्रत्ययः अस्तित्वे संप्रमोहे च संज्ञांतरकल्पनायामिहापि तयुक्तादनुक्तप्रतिपत्तौ सत्यां पर्यायत्वप्रसंगः। प्रविश, पिंडं भक्षयेत्यस्य गमात् तथास्ति-भवतिपरे प्रथमपुरुषेऽप्रयुज्यमानेऽप्यस्तीति गम्यते, वृक्षः प्लक्षोऽस्ति इति गम्यते न्यायादस्तिपर्यायः प्राप्तः तस्माद्भदस्यार्थनयात् हस्तिनोऽश्वकत्वाप्रसंग इति,एवं संज्ञातराभिधानमवस्तु एवेति। एवंभूतनय आह-निमित्तां क्रियां कृत्वा शब्दः प्रवर्त्तते, नहि यहच्छाशब्दोऽस्ति अतो घटमान एव घटः कूटश्च कूटो भवति, पूरणप्रवृत्त एव पुरंदरः, यथा दंडसंबंधानुभवनप्रवृत्तस्यैव दंडित्वं अन्यथा व्यवहारलोपप्रसंगः न चाऽसौ तदर्थः अनिमित्तत्वात् पुनः नयस्यावयवविभागेन व्याख्यानमाह निश्चयेन गम्यते उच्चायते प्रत्युच्यन्ते येषु शब्दास्ते निगमा जनपदाः, तेषु निगमेषु जनपदेषु ये अक्षरात्मकानां ध्वनीनां सामान्यनिर्देशा अमिहृता उद्धारिताः शब्दा घटादयः तेषामर्थाः जलधारणादिसमर्थशब्दार्थपरिज्ञानं चेति शब्दस्य घटादिरर्थोऽभिधेयः, तस्य परिज्ञानमवबोधः घट इत्यनेनायमर्थ उच्यते, अस्य चार्थस्य अयं वाचकः यदेवंविधमध्यवसायांतरं स नैगमः, स सामान्यविशेषालंबादेतदर्शयतिदेशसमग्रग्राही यदा हि स्वरूपतो घटोऽयमिति निरूपयति तदा सामान्यवटः सर्वसामान्यव्यक्त्याश्रितं पटाभिधानप्रत्ययहेतुमाश्रयत्यतः समग्राहीति, तथा विशेषतः सौवर्णो मन्मयो राजतः श्वेत इत्यादिकं विशेषं निरूपयति ततो देशमाहीति भण्यते नैगमनयः । सांप्रतं संग्रहस्य अवयवार्थमाह-अर्थानां सामान्यविशेपात्मकयोरेकीभावेन ग्रहणमाश्रयणमेवंविधाध्यवसायः संग्रहो भण्यते, एकीभावेन ग्रहणमेव द्रष्टव्यं, यो हि सामान्यविशेषौ नैगमाभिमतौ संपीड्य संग्रहनयः सामान्यमेव केवलं स्थापयति सत्ता
१२७
For Private And Personal Use Only