________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माध्यस्थ्याष्टकम्
वस्तुनेतरत् नहि पुरुषः स्थाणुर्यदाख्यातवचनार्थहानिः स्यात् । भेदाथै हि वचनं, अतः स्वाति-तारा-नक्षत्रमिति लिंगतः निंबाम्रकदंब-वनमिति वचनतः स पचति, त्वं पचसि, अहंपचामि, पचावः पचामः इति पुरुषतः एवमादि सर्व परस्परविशेष व्याघातादवस्तुपरस्पख्याघातत्वे एवमादि अवस्तु प्रतिपत्तव्यं । यथा शिशिरो ज्वलनः तथा विरुद्धविशेषणत्वात् तटः, तटी, तटमित्यवस्तु रक्तनीलमिति तथा तथा यद्वस्तु तद्विरुद्धविरुद्धविशेषमभ्युपयंति संतो यथा घटः कुंभः तथा चोच्यते यत्रार्थो न व्यमिचरति अमिघानं तदेवमयं समानलिंगसंख्यापुरुषवचनं शब्दः एतद्दर्शनानुगृहीतं चोच्यते अर्थप्रवृत्तितत्त्वानां शब्द एव निबंधनं इति । तत्त्वार्थे शब्दनयस्त्रिभेदः सांप्रतसमभिरूढैवंभूतभेदात्, सांप्रतं वर्तमानं भावाख्यमेव च स्वाश्रयत इति वर्तमानक्षणवर्त्तिवस्तुविषयोऽध्यवसायः तद्भवः सांप्रतः, स्वार्थे को वा सांप्रतिकः । अनुयोगद्वारादिषु भिन्नाख्यानेन मिन्नैव व्याख्यायते, यां यां संज्ञां अभिधत्ते तां तां समभिरोहतीति समभिरूढः, सोऽभिदधाति यदि लिंगमात्रभिन्नवस्तु विसंवादित्वात् नीलतादिवत् एवं सति मूलत एवं भिन्नशब्दं कथं वस्तु स्यात् ? शब्देन हि अर्थनिरुक्तिः क्रियते एतस्मानिरुक्तादेष इति यत्र तवेदस्तदभिन्नमेव यथा तु पूर्वनयेनैकं कृत्वोच्यते. इंद्रशक्रादितथा तदवस्तुघटज्वसनादिनिमित्तत्वात् अनयोरेकत्वेन अवस्तुता, एवं घटकुटयोरपि चेष्टाकौटिल्यनिमित्तभेदात्पृथक्तौ तथा प्रकृतिप्रत्ययोपात्तनिमित्तभेदात् भिन्नौ शकेंद्रशब्दौ एकार्थिनौ न भवतः विविक्तनिमित्तावबद्धत्वात्, गवाश्वशब्दवत , प्रतीतिश्च लोके चैवं निरूढत्वात् इंद्रशब्दस्य पुरंदरादयः पर्यायाः, इत्येतदनुत्पन्नं एवं हि सामान्यविशेषयोरपि पर्यायशब्दत्वं स्यादेवः यतः प्लक्ष इत्युक्ते
१२६
For Private And Personal Use Only