________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
~~~~ ~~~~ दिदानस्य साफल्यं व्यवहार्यत्वाच्च शेषमवस्तु व्योमेंदीवरादिवदिति । ऋजु-सममकुटिलं सूत्रयति ऋजुता श्रुतमागमोऽस्येति सूत्रपातनिबद्धो ऋजुसूत्रः यस्मादतीतानागतवस्तुपरित्यागेन वर्तमानपदवीमनुधावन् यः सांप्रतकालावरुद्धपदार्थत्वात् ऋजुसूत्रः । एष च भावविषयप्रकारातीतानागतवस्तुपरित्यागविषयवचनपरिच्छेदे प्रवृत्तः सर्वविकल्पातीतातिप्रमुग्धसंग्राहाग्रहाविशिष्टत्वात् । व्यवहारस्यायथार्थतां मन्यमानः अचरणपुरुषगरुडवेगव्यपदेशवत् वर्तमानक्षणसमवस्थितिपरमार्थ व्यवस्थापयति । अतीतानागताभ्युपगमस्तु खरविषाणास्तित्वाभ्युपगमान्न भिद्यते, दग्वध्वस्तविषयश्च न कस्यचिदपि स्यात् , अवटादिलक्षणमृदाद्यांतरत्वाच घटादिकालेऽपि घटादि नैव स्यात् न च तदेकं मृद्दव्यमन्यथा वर्त्तते, किं तर्हि ? अन्यदेवान्यत्प्रत्ययवशात् अन्यथोत्पद्यते इति । न च पिंडादिक्रियाकाले कुंभकारख्यपदेशः, यदि चान्यदपि कुर्वन्न तस्य कर्तुरित्युच्यते पटादिकरणप्रवृत्तोऽपि प्रत्याख्यातविज्ञानांतरसंबंधः स्यादेव कुंभकारस्ततश्चाशेषलोकव्यवहारोपरोध इत्यतः पूर्वापरभागवियुतः सर्ववस्तुगतो वर्तमानक्षण एव सत्यो नातीतानागतं वा चास्ति-वर्तमानवादिनो नास्तिकादयः एतद्दर्शनं च “ वरखाद ” इत्यादि “ एतावानेव लोकोऽयं यावानिद्रियगोचरः ” इत्यादिसूक्ष्मस्थूलभेदात् परिणतिसामान्यविशेषपरिणतिक्षयोपशमिकौदयिकादिवर्त्तमानग्रहरूपशब्दनयः शब्द एवासौ अर्थकृतवस्तुविषयविशेषाप्रत्याख्यानेन शब्दकृतार्थविशेषं मन्यते । यो यः अर्थः धातोः विशेषः स्यान्न शब्दकृतः तेन घटवर्तमानकाले घट एव निर्विशेषः स्यात् । कर्म-करण-संप्रदानापादान-स्वाम्यादिविशेषान् नाप्नुयात् ततश्च घटं यत्सत्येवमादिः कारककृताव्यवहारो विद्यतेऽतः समानलिंगादिशब्दसमुद्भावितमेवाभ्युपैति ।
40
For Private And Personal Use Only