________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माध्यस्थ्याष्टकम् .
अनेकविधः, नामनिक्षेपतो द्रव्यनिक्षेपवृत्तिः अंशोपलंभे सर्वारोपः, अन्यसमस्तसापेक्षः नैगमः सुनयः । अभेदेन वस्तुसामान्येन संग्रहणात् सर्वस्य संगृह्णातीति संग्रहः, वस्तुसत्ताग्राहकः संग्रहः, यदि भावनाभिः संबद्धस्यैव भावत्वमभ्युपगम्यते ततः परिसमापिता(त)स्वरूपित्वात् भावस्य प्रांतिसमुपपत्तिबंधनघटादिविकल्पमानर्थक्यं, यदि घटादिविकल्पोऽपि भवनप्रवृत्तिः तंत्रमेवेत्येवं सति भाव एव तदनांतरत्वात् तत्स्वात्मवत् एतदर्शनपुरःसरा एवं च सर्वनित्यैकत्वाकारणमात्रवादाः कालपुरुषस्वभावादयश्चेति । अत्र द्रव्यास्तिकभेदा जीवाजीवयोग्यत्व-स्वद्रव्य उपचारद्रव्य-एकत्वाभेदागोचरभेदादनेकभेदः भावनिश्चयसामान्याभेदसंगृहीतानां विधिपूर्वकावस्थादिभेदेन विभजनभेदकरणलक्षणं तद्धर्मप्रवृत्तिभिन्नज्ञानरूपो व्यवहारः, यदि घटादिभेदश्रुत्या स्वसामान्यानुबद्धस्य निरस्तसामान्यांतरसंबंधस्य श्रूयमाणत्वानुगुणमेव ग्रहणं न स्यात् किंतु सर्वव्यपदेशविशेषाभिव्यंगाभाव एव तेन तेन रूपेणाभिव्यज्यते । ततो घटादन्यतरभेदश्रुतौ सर्वरूपाभावप्रतीतिप्रसंगः, ततश्च घटपटकादिरूपव्यतिकरभावप्रसंगः, उपदेशक्रियोपभोगापवर्गव्यवस्थादीनां चाभावात्सर्वसंव्यवहारोच्छेदः, सर्वविशेषाव्याकरणे च तिर्ति (?) बंधनभवनाभावात् भावाभाव एव अविशेषत्वाभेदत्वानिरूप्यत्वादितश्च नैवासौ भावः खरविषाणादिवत् तस्माद् व्यवहारोऽपतितसामान्यो निबंधनं तु यदा द्रव्यं पृथिवी घटादि व्यपदिश्यते; तदेव तत्तदा त्रैलोक्याविभिन्नरूपं सततमवस्थितापरित्यक्तात्मसामान्यं महासामान्यप्रतिक्षेपेण संव्यवहारमार्गमास्कंदतीति । एवंविधवस्तूपनिबंधनेनैव च वर्णाश्रमप्रतिनियमयमगम्यागम्यभक्तादिव्यवस्था कुंभकारादेश्व मृदानयनतावमर्दनशिवकस्थासकादिकरणं प्रवृत्तौ चेतनका
१२४
For Private And Personal Use Only