________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०४
विवेकाष्टकम्.
आत्मन्येवात्मनः कुर्यात्, यः षट्कारकसङ्गतिम् । क्वा विवेकज्वरस्यास्य, वैषम्यं जडमज्जनात् ॥७॥
Acharya Shri Kailassagarsuri Gyanmandir
व्या०-- आत्मन्येवात्मन इति — य आत्मनः कर्तृत्वव्यापारविभजनदक्ष आत्मनि एके स्वात्मद्रव्ये एवं आत्मनः स्वीया षट्कारकसंगतिः षट्कारकाणां कर्तृ-कर्म-करण-संप्रदानापादानाधिकरणरूपाणां संगतिं एकत्वं कुर्यात; अस्य पुरुषस्य अविवेकोऽज्ञानं स एव ज्वरः तस्य वैषम्यं विषमत्वं क्व कथं भवति ? ज्वरस्य हेतुत्वमाह जडमज्जनात् 'जडिमजवात्' इति पाठे जडिमा मौठ्यं तस्य जवो वेगः तस्मात्, अथवा जलमज्जनात् जलमज्जनेन महाज्वरोत्पातः तस्मात् । अत्र षट्कारकव्याख्या श्रीविशेषावश्यकानुसारेण उच्यते-आत्मा कर्ता तथा च यः कर्तात्मापरः स कारकचकोपेत एव । आत्मा कर्ता स्वगुणपरिणमनात्मकज्ञप्तिक्रियाकारकत्वात्, ज्ञानाद्यनंतगुणप्रवृत्तिः कार्य, गुणाः कारणभूताः, गुणपर्यायाणां उत्पादपर्यायाणां पात्रत्वात् संप्रदानं, व्ययीभूतपर्यायाणां विश्लेषास्पदत्वात् अपादानं, तथानंतगुणपर्यायाणां आधारत्वात् आधारः; आत्मनि आत्मा आत्मानं आत्मना आत्मने आत्मनः परिणमनवृच्या करोति । उक्तं च श्रीजिनभद्रपूज्यैः
कारणमहवा छडा, कत्ता सततोत्ति कारणं कत्ता । कज्जं पसाहगतमं, करणंमि उ पिंडदंडाई ॥ १ ॥ व्याख्या - अथवा कारणं षोढा । तत्र स्वतंत्रः कर्त्ता यः स्वतंत्र स्वाधीनं कारणं स कर्ता यथा घटस्य कर्ता कुंभकारः, तथा आत्मनि व्याप्यावस्थितानामभेदरूपाणां गुणानां स्वस्वपरिणमनकार्यव्यापारप्रवृत्तिरूपां क्रियां करोति तेनात्मा कर्ता १ कार्य प्रसाधकतमं कारणं करणं उपादाननिमित्त मेदात द्विभेदं तत्र घटे
E
For Private And Personal Use Only