________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानगंगारी टीका. पुनः शुद्धताहेतुत्वोपदेशं कथयति । इच्छन् न परमान् भावान् , विवेकादेः पतत्यधः। परमं भावमन्विष्यन् , अविवेके न मज्जति ॥ ६ ॥
इच्छन्न परमानिति-परमान् भावान् परमभावग्राहकनयेन संमतशुमचैतन्यानुगसर्वधर्मपरिणमनेन 'परमान्' उत्सर्गशुद्धनयोपदिष्टान् नित्यानित्याद्यनंतान् 'न इच्छन्' न वाञ्छन् 'विवेकाद्रेः' तत्त्वज्ञानतत्त्वरमणगिरेः शृंगात् अधः पतति विवेकरहितो भवति, 'परमं' शुद्धं तादात्म्यतागतं सर्वविशुद्धात्मस्वभावं स्याद्वादोपयोगेन 'अन्विष्यन्' गवेषयन् शुद्धचैतन्यमुपादेयतया कुर्वन् 'अविवेके' अज्ञाने असंयमे 'न मज्जति न मग्नो भवति । अध्यात्मस्वरूपैकत्वानुभवकरणप्रवृत्तः परभावचूरणचक्रवर्ती एव इति समस्तपरभावोन्मादमंथनपटुशुद्धात्मज्ञानरमणानुभवने यतितव्यं, नार्शचीनपरिणतौ, अत एवापूर्वकरणप्रविष्टमुनिरनेकर्खिलामे न संगतिमंगति । अपूर्वकरणं च सर्वामिनवगुणप्राप्तौ भवत्येव ।
संमदरसजोबविरई, अणविसंजोयदंसखवगे य। मोहसमसंतखवगेखीणसयोगीयर गुणसेढी ॥१॥
एवं एकादशगुणश्रेणिषु प्रथमगुणश्रेणौ करणत्रयं, शेषासु दशसंख्यासु अपूर्वकरणानिवृत्तरूपं करणद्वयं करोत्येव; एवं अपूपूर्वकरणारोहणेन कर्मपटलविग्रमो भवति । उक्तं चसातरिसेष्वगुरुः, प्राप्यद्धिविमतिमसुलभामन्यैः । सक्तः प्रशमरतिसुखे; न भजति तस्यां मुनिः संगम् ॥१॥ या सर्वसुखर्द्धिविस्मयनीयानगारदिर्नार्थयति । सहस्रभाग कोटिशतसहस्रगुणितापि ॥ २॥ ॥६॥
'
6
११५
For Private And Personal Use Only