________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०२
विवेकाष्टकम्
आत्मनः परभावकर्तृत्वाभावे परोपाधिजननशुद्धेऽपि व्योम्नि तिमिरात् रेखामिर्मिश्रता यथा विकारैः, अन्येन विकारेण विकारता कयमिति निवारयन् आहयथा योधैः कृतं युद्धं, स्वामिन्येवोपचर्यते। शुद्धात्मन्यविवेकेन, कर्मस्कन्धोर्जितं तथा ॥४॥
यथा योधैरिति-यथा 'योधैः सुभटैः कृतं युद्धं समरस्वामिनि नृपे उपचर्यते जयपराजयहविषादश्लोकाश्लोकादिकं स्वामिनि एव 'अयं नृपः जितः अयं पराजितः ' लोके इत्युक्तिर्भवति तच्च स्वामित्वांशं ममत्वैकत्वेन तथा संग्रहेण शुझे आत्मनि 'अविवेकेनः अज्ञानेन असंयमेन; कर्म ज्ञानावरणादि तस्य स्कंधः-समूहः तस्य ऊर्जितं-साम्राज्यं अस्ति इत्यनेन स्वस्वरूपकर्तृत्व-भोक्तृत्व-परावृत्तौ ग्राहकतादिशक्तिपरिग्रहणेन तदकर्तृत्वापत्तिर्जीवस्योपचर्यते-उपचारः क्रियते, असदारोप उपचारः परभावकतृत्वादिपरिणत्यभावेष्वौपाधिककर्तृत्वाद्युपचारोऽनादी न इति॥४॥
पुनस्तदेव कथयति; परप्रसङ्गाञ्चैतन्यव्यामोहं दर्शयति-- इष्टकाद्यपि हि स्वर्ण, पीतोन्मत्तो यथेक्षते । आत्माभेदभ्रमस्तद्व-देहादावविवेकिनः ॥ ५॥ __इष्टकाद्यपि इति-कश्चित् पीतोन्मत्तः पीतेन-कनकेन पंक्तिस्थन्यायेनार्थः धतूरकेणोन्मत्तः-धर्मितः 'इष्टकाद्यपि मृन्मयस्कं. धानपि हीति निश्चितं स्वर्ण 'ईक्षते' विलोकते; तद्वत् 'अविवेकिनः, तत्वज्ञानविकलस्य 'देहादी' शरीरादौ 'आत्माभेदभ्रमः आत्मना-चेतनेन सह न भेदः-अभेदः तस्य भ्रमो भवति । शुद्धामाश्रवणादज्ञातवपरविभेदः परं स्वात्मत्वेन जानन आत्मानं परेणकत्वं मन्यमानो अमत्यनंतकालं, अतोऽयमविवेकरन्याज्यः ॥५॥
For Private And Personal Use Only