________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२०१
२, यः केवलज्ञानदर्शनोपयुक्तः शुद्धसिद्धः स परमात्मा सयोगी केवल सिद्ध स परमात्मा उच्यते । सर्वत्र परमात्मत्वसत्ता समाना, अतो भेदज्ञानेन सर्व साध्यं इति । देहात्मा देहः - शरीरं आत्मा - जीवः आदिशब्दात मनोवाक्कायादिषु आत्मा अयं इत्यविवेकः 'सर्वदा' सर्वकालं 'सुलभः सुप्रापः 'भवे' संसारे, तदेदविवेकः- तस्य शरीरात्मना भेदविवेकः- भिन्नताविवेचनरूपः भव - कोट्यापि 'अतिदुर्लभः' दुष्प्रापः अनादिकालैकस्वगृहीतपरभावात्मना स्वस्वलक्षणभेदेन भेदज्ञानं - अतिदुर्लभः सम्यग्दृष्टिरेव भेदज्ञानं करोति, आत्मना तनिश्चयः दुर्लभः । उक्तं च समयप्राभृते-
1
सदपरिचिदाणुभ्रता, सबस्सवि कामभोगबंध कहा । एगत्तमुचलभोणवरिणसुलभो विभत्तस्स ॥ १ ॥
आत्मा ज्ञानानंदमयः, परभावा रागादयः तेषां विभजनरूपः आत्मस्वरूपरसिकत्वोपयोगः दुर्लभः || २ ||
शुद्धेऽपि व्योम्नि तिमिराद्, रेखाभिर्मिश्रता यथा । विकारैर्मिश्रता भाति, तथात्मन्यविवेकतः ॥ ३ ॥
शुद्ध इति- 'यथा येन प्रकारेण शुद्धे 'योनि' आकाशे 'तिमिरात' चक्षुपि भ्रमकारकतिमिररोगात रेखाभिर्नीलपीतादिभिः मिश्रता शबलता करता दृश्यते तथा तेनैव प्रकारेण अविवेकतः असदुपयोगतः विकारै: रागाद्यशुद्धाध्यवसायः 'मिश्रता' एकता 'भाति' शोभते इति, अनादिविकारविक्रियापरिणता दृश्यते इत्यनेन निश्चयनयेन निर्विकाराखंडचिन्मूर्त्तिः तथापि परैकत्वेन विकारांकितो भासते इति ॥ ३ ॥
११३
For Private And Personal Use Only